Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 724
ऋषिः - श्रुतकक्षः सुकक्षो वा आङ्गिरसः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
7

त्रि꣡क꣢द्रुकेषु꣣ चे꣡त꣢नं दे꣣वा꣡सो꣢ य꣣ज्ञ꣡म꣢त्नत । त꣡मि꣢꣯द्वर्धन्तु नो꣣ गि꣡रः꣢ ॥७२४॥

स्वर सहित पद पाठ

त्रि꣡क꣢꣯द्रुकेषु । त्रि । क꣣द्रुकेषु । चे꣡तन꣢꣯म् । दे꣣वा꣡सः꣢ । य꣣ज्ञ꣢म् । अ꣣त्नत । त꣣म् । इत् । व꣣र्द्धन्तु । नः । गि꣡रः꣢꣯ ॥७२४॥


स्वर रहित मन्त्र

त्रिकद्रुकेषु चेतनं देवासो यज्ञमत्नत । तमिद्वर्धन्तु नो गिरः ॥७२४॥


स्वर रहित पद पाठ

त्रिकद्रुकेषु । त्रि । कद्रुकेषु । चेतनम् । देवासः । यज्ञम् । अत्नत । तम् । इत् । वर्द्धन्तु । नः । गिरः ॥७२४॥

सामवेद - मन्त्र संख्या : 724
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 4; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 1; सूक्त » 4; मन्त्र » 3
Acknowledgment

पदार्थः -
(देवासः) विद्वांसो जनाः (त्रिकद्रुकेषु२) त्रीणि कद्रुकाणि केन्द्रकीलकानि आत्ममनोबुद्ध्याख्यानि येषु तेषु व्यवहारेषु (चेतनम्) चेतयितारम् (यज्ञम्) उपासनायज्ञम् (अत्नत)विस्तारयन्ति। (तम् इत्) तमेव उपासनायज्ञम् (नः) अस्माकम्(गिरः) स्तुतिवाचः (वर्धन्तु) वर्धयन्तु ॥३॥

भावार्थः - परमेश्वरोपासनया मनुष्यस्यात्मनि चेतनाप्रवाहो जागरूकता कर्तव्यनिष्ठा शूरता कर्मण्यता विजेतृता परोपकारितेत्यादयो गुणाः स्वत एव समायान्ति ॥३॥ अस्मिन् खण्डे जीवात्मपरमात्मगुरुशिष्यविषयवर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिर्वेद्या ॥

इस भाष्य को एडिट करें
Top