Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 750
ऋषिः - वसिष्ठो मैत्रावरुणिः देवता - अग्निः छन्दः - प्रगाथः(विषमा बृहती, समा सतोबृहती) स्वरः - पञ्चमः काण्ड नाम -
7

स꣡ यो꣢जते अरु꣣षा꣢ वि꣣श्व꣡भो꣢जसा꣣ स꣡ दु꣢द्रव꣣꣬त्स्वा꣢꣯हुतः । सु꣣ब्र꣡ह्मा꣢ य꣣ज्ञः꣢ सु꣣श꣢मी꣣ व꣡सू꣢नां दे꣣व꣢꣫ꣳ राधो꣣ ज꣡ना꣢नाम् ॥७५०॥

स्वर सहित पद पाठ

सः । यो꣣जते । अरुषा꣣ । वि꣡श्व꣡भो꣢जसा । वि꣣श्व꣢ । भो꣣जसा । सः꣢ । दु꣣द्रवत् । स्वा꣢हुतः । सु । आ꣣हुतः । सुब्र꣡ह्मा꣢ । सु꣣ । ब्र꣡ह्मा꣢꣯ । य꣣ज्ञः꣢ । सु꣣श꣡मी꣢ । सु꣣ । श꣡मी꣢꣯ । व꣡सू꣢꣯नाम् । दे꣣व꣡म् । रा꣡धः꣢꣯ । ज꣡ना꣢꣯नाम् ॥७५०॥


स्वर रहित मन्त्र

स योजते अरुषा विश्वभोजसा स दुद्रवत्स्वाहुतः । सुब्रह्मा यज्ञः सुशमी वसूनां देवꣳ राधो जनानाम् ॥७५०॥


स्वर रहित पद पाठ

सः । योजते । अरुषा । विश्वभोजसा । विश्व । भोजसा । सः । दुद्रवत् । स्वाहुतः । सु । आहुतः । सुब्रह्मा । सु । ब्रह्मा । यज्ञः । सुशमी । सु । शमी । वसूनाम् । देवम् । राधः । जनानाम् ॥७५०॥

सामवेद - मन्त्र संख्या : 750
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 13; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 4; सूक्त » 1; मन्त्र » 2
Acknowledgment

पदार्थः -
(सः) असौ यज्ञाग्निः (विश्वभोजसा) विश्वपालकेन। [विश्वं सर्वं यजमानहोत्रादिकं भुनक्ति पालयतीति विश्वभोजाः तेन।] (अरुषा) आरोचमानेन तेजसा। [अरुषम् इति रूपनाम। निघं० ३।७।] (योजते) युज्यते योजयति वा यजमानान्। (सः) यज्ञाग्निः (स्वाहुतः) सम्यक् प्राप्ताहुतिः सन् (दुद्रवत्) भृशं द्रवति गच्छति, ज्वालाभिर्लेलायते। [द्रु गतौ, यङ्लुगन्तः, लङ्, अडभावः।] (सुब्रह्मा) उत्कृष्टो ब्रह्मा (ऋत्विग्) यत्र तादृशः (यज्ञः) अध्वरः (वसूनाम्)आहिताग्नीनां यजमानानाम् (सुशमी) सुशान्तिकरः जायते। स च यज्ञः (जनानाम्) अग्निहोत्रिणां प्रजानाम् (देवं) प्रकाशकम् (राधः) ज्योतीरूपं धनं, प्रयच्छतीति शेषः ॥२॥१

भावार्थः - सुयोग्यं ब्रह्माणमध्यक्षपदे नियुज्य कृतो यज्ञः सुखशान्तिस्वास्थ्यकरो जनानां ज्योतिष्प्रदोऽध्यात्ममार्गे प्रेरकश्च जायते ॥२॥

इस भाष्य को एडिट करें
Top