Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 752
ऋषिः - वसिष्ठो मैत्रावरुणिः देवता - उषाः छन्दः - प्रगाथः(विषमा बृहती, समा सतोबृहती) स्वरः - पञ्चमः काण्ड नाम -
8

उ꣢दु꣣स्रि꣡याः꣢ सृजते꣣ सू꣢र्यः꣣ स꣡चा꣢ उ꣣द्य꣡न्नक्ष꣢꣯त्रमर्चि꣣व꣢त् । त꣡वेदु꣢꣯षो꣣ व्यु꣢षि꣣ सू꣡र्य꣢स्य च꣣ सं꣢ भ꣣क्ते꣡न꣢ गमेमहि ॥७५२॥

स्वर सहित पद पाठ

उत् । उ꣣स्रि꣡याः꣢ । उ꣣ । स्रि꣡याः꣢꣯ । सृ꣣जते । सू꣡र्यः꣢꣯ । स꣡चा꣢꣯ । उ꣣द्य꣢त् । उ꣣त् । य꣢त् । न꣡क्ष꣢꣯त्रम् । अ꣣र्चिव꣢त् । त꣡व꣢꣯ । इत् । उ꣣षः । व्यु꣡षि꣢꣯ । वि꣣ । उ꣡षि꣢꣯ । सू꣡र्य꣢꣯स्य । च꣣ । स꣢म् । भ꣣क्ते꣡न꣢ । ग꣣मेमहि ॥७५२॥


स्वर रहित मन्त्र

उदुस्रियाः सृजते सूर्यः सचा उद्यन्नक्षत्रमर्चिवत् । तवेदुषो व्युषि सूर्यस्य च सं भक्तेन गमेमहि ॥७५२॥


स्वर रहित पद पाठ

उत् । उस्रियाः । उ । स्रियाः । सृजते । सूर्यः । सचा । उद्यत् । उत् । यत् । नक्षत्रम् । अर्चिवत् । तव । इत् । उषः । व्युषि । वि । उषि । सूर्यस्य । च । सम् । भक्तेन । गमेमहि ॥७५२॥

सामवेद - मन्त्र संख्या : 752
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 14; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 4; सूक्त » 2; मन्त्र » 2
Acknowledgment

पदार्थः -
प्रथमः—प्राकृतिकसूर्योषःपक्षे। (सूर्यः) आदित्यः (सचा) सह, युगपत् (उस्रियाः) किरणान्। [उस्रा इति रश्मिनाम। निघं० १।५। द्वितीयैकवचने इयाडियाजीकाराणामुपसंख्यानम्। अ० ७।१।३९ वा० इति शसः स्थाने डियाज् आदेशः।] (उत्सृजते) उद्गमयति, येन (उद्यत्) उद्गच्छत् (नक्षत्रम्) गतिमयं ग्रहोपग्रहादिकम्। [नक्षत्राणि नक्षतेर्गतिकर्मणः इति निरुक्तम् ३।२०।] (अर्चिवत्) दीप्तियुक्तं जायते इति शेषः। हे (उषः) प्रभातवेले ! (तव इत्) तव खलु (सूर्यस्य च) आदित्यस्य च (व्युषि) विवासने प्रकाशने सति, वयम् (भक्तेन) ऐश्वर्येण (संगमेमहि) संगच्छेमहि ॥ द्वितीयः—अध्यात्मपरः। (सूर्यः) सूर्यवत् प्रकाशमानः, प्रकाशकश्च परमात्मा (सचा) युगपत् (उस्रियाः) दिव्यप्रकाशस्य रश्मीन् (उत्सृजते) विसृजति, तेन च (उद्यत्) उद्गच्छत् (नक्षत्रम्) प्रगतिशीलं मनोबुद्ध्यादिकम् अर्चिवत् प्रकाशमयं जायते। हे (उषः) अध्यात्मप्रभे ! (तव इत्) तव खलु (सूर्यस्य च) परमात्मरूपस्य आदित्यस्य च (व्युषि) प्रकाशने सति, वयम् (भक्तेन) दिव्येन ऐश्वर्येण (सं गमेमहि) संगच्छेमहि ॥२॥ अत्र श्लेषालङ्कारः। उपमानोपमेयभावश्च गम्यते ॥२॥

भावार्थः - यथोषसः सूर्यस्य चोदये सर्वं प्रकाशते तथैवाध्यात्मिक्याः प्रभायाः परमात्मनश्चोदयादुपासकानां हृदयं प्रकाशते ॥२॥

इस भाष्य को एडिट करें
Top