Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 762
ऋषिः - अहमीयुराङ्गिरसः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
5

उ꣢पो꣣ षु꣢ जा꣣त꣢म꣣प्तु꣢रं꣣ गोभिर्भङ्गं परिष्कृतम् । इन्दुं देवा अयासिषुः ॥७६२॥

स्वर सहित पद पाठ

उ꣡प꣢꣯ । उ꣣ । सु꣢ । जा꣣त꣢म् । अ꣣प्तु꣡र꣢म् । गो꣡भिः꣢꣯ । भ꣣ङ्ग꣢म् । प꣡रि꣢꣯ष्कृतम् । प꣡रि꣢꣯ । कृ꣣तम् । इ꣡न्दु꣢꣯म् । दे꣣वाः꣢ । अ꣣यासिषुः ॥७६२॥


स्वर रहित मन्त्र

उपो षु जातमप्तुरं गोभिर्भङ्गं परिष्कृतम् । इन्दुं देवा अयासिषुः ॥७६२॥


स्वर रहित पद पाठ

उप । उ । सु । जातम् । अप्तुरम् । गोभिः । भङ्गम् । परिष्कृतम् । परि । कृतम् । इन्दुम् । देवाः । अयासिषुः ॥७६२॥

सामवेद - मन्त्र संख्या : 762
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 18; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 5; सूक्त » 3; मन्त्र » 2
Acknowledgment

पदार्थः -
प्रथमः—जीवात्मपक्षे। (सु जातम्) सुख्यातम्, (अप्तुरम्) अप्सु कर्मसु तुरः सत्वरः तम् कर्मशूरम्, (भङ्गम्) शत्रुविपदादिभञ्जकम्, (गोभिः परिष्कृतम्) वाग्भिः इन्द्रियैश्च सुसज्जितम् (इन्दुम्) दीप्तिमन्तं जीवात्मानम् (देवाः) मनोबुद्धिप्राणेन्द्रियादयः (उप उ अयासिषुः) बलप्राप्त्यर्थम् उपगच्छन्ति ॥ द्वितीयः—नृपतिपक्षे। (सु जातम्) सम्यक् प्रजामध्याद् निर्वाचितम्, (अप्तुरम्) कर्मयोगिनम्, (भङ्गम्) शत्रूणां भञ्जकम्, (गोभिः परिष्कृतम्) भूमिभिः परिष्कृतम्, परिष्कृतभूमिकमित्यर्थः (इन्दुम्) तेजस्विनं मधुरस्वभावं च राजानम् (देवाः) दिव्यगुणयुक्ताः प्रजाजनाः (उप उ अयासिषुः) उप प्राप्नुवन्ति ॥२॥ अत्र श्लेषालङ्कारः विशेषणानां साभिप्रायत्वात् परिकरश्च ॥२॥

भावार्थः - यदा देहस्था मनोबुद्ध्यादयो जीवात्मनः सकाशादेव बलं लभन्ते तथा प्रजाजना वीरेण नृपतिना बलवन्तो जायन्ते ॥२॥

इस भाष्य को एडिट करें
Top