Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 795
ऋषिः - मेधातिथिः काण्वः
देवता - मित्रावरुणौ
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
3
व꣡रु꣢णः प्रावि꣣ता꣡ भु꣢वन्मि꣣त्रो꣡ विश्वा꣢꣯भिरू꣣ति꣡भिः꣢ । क꣡र꣢तां नः सु꣣रा꣡ध꣢सः ॥७९५॥
स्वर सहित पद पाठव꣡रु꣢꣯णः । प्रा꣣विता꣢ । प्र꣣ । अविता꣢ । भु꣣वत् । मित्रः꣢ । मि꣢ । त्रः꣢ । वि꣡श्वा꣢꣯भिः । ऊ꣣ति꣡भिः꣢ । क꣡र꣢꣯ताम् । नः꣣ । सु꣡राध꣢सः । सु꣣ । रा꣡ध꣢꣯सः ॥७९५॥
स्वर रहित मन्त्र
वरुणः प्राविता भुवन्मित्रो विश्वाभिरूतिभिः । करतां नः सुराधसः ॥७९५॥
स्वर रहित पद पाठ
वरुणः । प्राविता । प्र । अविता । भुवत् । मित्रः । मि । त्रः । विश्वाभिः । ऊतिभिः । करताम् । नः । सुराधसः । सु । राधसः ॥७९५॥
सामवेद - मन्त्र संख्या : 795
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 7; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 2; सूक्त » 2; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 7; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 2; सूक्त » 2; मन्त्र » 3
Acknowledgment
विषयः - अथ पुनरपि तमेव विषयमाह।
पदार्थः -
(वरुणः) शरीरे उदानः, राष्ट्रे क्षत्रियश्च (मित्रः) शरीरे प्राणः, राष्ट्रे ब्राह्मणश्च (विश्वाभिः) सर्वाभिः (ऊतिभिः) रक्षाभिः (प्राविता) अस्माकं प्रकर्षेण रक्षिता (भुवत्) भवतु। अपि च (नः) अस्मान् (सुराधसः२) सुधनान् सुसिद्धिमतश्च। [राधस् इति धननाम। निघं० २।१०। राध संसिद्धौ।] (करताम्) कुरुताम्। [डुकृञ् करणे, व्यत्ययेन शप्] ॥३॥३
भावार्थः - प्राणोदानाभ्यां देहे स्वास्थ्यरूपं योगसिद्धिरूपं च धनं, ब्राह्मणक्षत्रियाभ्यां च राष्ट्रे विद्याचक्रवर्तिराज्यादिरूपं धनं सर्वे प्राप्नुवन्तु ॥३॥
टिप्पणीः -
१. ऋ० १।२३।६। २. सुराधसः शोभनानि विद्याचक्रवर्तिराज्यसंबन्धीनि राधांसि धनानि येषां तान्—इति ऋ० १।२३।६ भाष्ये द०। ३. एतमपि मन्त्रमृग्भाष्ये दयानन्दर्षिः सूर्यवायुपक्षे व्याचष्टे।