Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 797
ऋषिः - मधुच्छन्दा वैश्वामित्रः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
7

इ꣢न्द्र꣣ इ꣢꣯द्धर्योः꣣ स꣢चा꣣ स꣡म्मि꣢श्ल꣣ आ꣡ व꣢चो꣣यु꣡जा꣢ । इ꣡न्द्रो꣢ व꣣ज्री꣡ हि꣢र꣣ण्य꣡यः꣢ ॥७९७॥

स्वर सहित पद पाठ

इ꣡न्द्रः꣢꣯ । इत् । ह꣡र्योः꣢꣯ । स꣡चा꣢꣯ । सं꣡मि꣢꣯श्लः । सम् । मि꣣श्लः । आ꣢ । व꣣चोयु꣡जा꣢ । व꣣चः । यु꣡जा꣢꣯ । इ꣡न्द्रः꣢꣯ । व꣡ज्री꣢ । हि꣣रण्य꣡यः꣢ ॥७९७॥


स्वर रहित मन्त्र

इन्द्र इद्धर्योः सचा सम्मिश्ल आ वचोयुजा । इन्द्रो वज्री हिरण्ययः ॥७९७॥


स्वर रहित पद पाठ

इन्द्रः । इत् । हर्योः । सचा । संमिश्लः । सम् । मिश्लः । आ । वचोयुजा । वचः । युजा । इन्द्रः । वज्री । हिरण्ययः ॥७९७॥

सामवेद - मन्त्र संख्या : 797
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 8; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 2; सूक्त » 3; मन्त्र » 2
Acknowledgment

पदार्थः -
(इन्द्रः इत्) देहाधिष्ठाता जीवात्मैव (वचोयुजा) वचोयुजोः वचनसमकालमेव युज्यमानयोः (हर्योः)ज्ञानेन्द्रियकर्मेन्द्रियरूपयोः अश्वयोः (सचा) सह, युगपत् (आ सम्मिश्लः) आ सम्मिश्रः, ज्ञानकर्मसु नियोक्ता विद्यते। (इन्द्रः) स जीवात्मा (वज्री) वाग्वज्रधरः। [वाग्घि वज्रः। ऐ० ब्रा० ४।१।] (हिरण्ययः) प्राणमयो ज्योतिर्मयो यशोमयो वा विद्यते। [प्राणो वै हिरण्यम्। श० ७।५।२।८। ज्योतिर्वै हिरण्यम्। तां० ब्रा० ६।६।१०, यशो वै हिरण्यम्। ऐ० ब्रा० ७।१८] ॥२॥१

भावार्थः - यस्य जीवात्मनः प्रेरणया ज्ञानेन्द्रियाणि कर्मेन्द्रियाणि च स्वस्वव्यापारेषु नियुज्यन्ते, यो जीवात्मा वाग्वज्रेण कुतार्किकाणां कुतर्कान् खण्डयति, यः प्राणाधिष्ठाता तेजस्वी यशस्वी चास्ति तमुद्बोध्य सर्वे समीहितानि साध्नुवन्तु ॥२॥

इस भाष्य को एडिट करें
Top