Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 798
ऋषिः - मधुच्छन्दा वैश्वामित्रः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
4
इ꣢न्द्र꣣ वा꣡जे꣢षु नोऽव स꣣ह꣡स्र꣢प्रधनेषु च । उ꣣ग्र꣢ उ꣣ग्रा꣡भि꣢रू꣣ति꣡भिः꣢ ॥७९८॥
स्वर सहित पद पाठइ꣡न्द्र꣢꣯ । वा꣡जे꣢꣯षु । नः꣣ । अव । सह꣡स्र꣢प्रधनेषु । स꣣ह꣡स्र꣢ । प्र꣣धनेषु । च । उ꣢ग्रः । उ꣣ग्रा꣡भिः꣢ । ऊ꣣ति꣡भिः꣢ ॥७९८॥
स्वर रहित मन्त्र
इन्द्र वाजेषु नोऽव सहस्रप्रधनेषु च । उग्र उग्राभिरूतिभिः ॥७९८॥
स्वर रहित पद पाठ
इन्द्र । वाजेषु । नः । अव । सहस्रप्रधनेषु । सहस्र । प्रधनेषु । च । उग्रः । उग्राभिः । ऊतिभिः ॥७९८॥
सामवेद - मन्त्र संख्या : 798
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 8; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 2; सूक्त » 3; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 8; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 2; सूक्त » 3; मन्त्र » 3
Acknowledgment
विषयः - तृतीया ऋक् पूर्वार्चिके ५९८ क्रमाङ्के परमेश्वरपक्षे नृपतिपक्षे च व्याख्याता। अत्र जीवात्मविषय उच्यते।
पदार्थः -
हे (इन्द्र) शरीराधिष्ठातः जीवात्मन् ! (उग्रः) वीरः त्वम् (वाजेषु) संग्रामेषु। [वाज इति संग्रामनाम निघं० २।१७।] (सहस्रप्रधनेषु च) सहस्राण्यसंख्यातानि प्रकृष्टानि धनानि प्राप्नुवन्ति येषु तेषु चक्रवर्तिराज्यसाधकेषु महायुद्धेषु च३ (उग्राभिः) अत्यन्तोत्कृष्टाभिः (ऊतिभिः) रक्षाभिः (नः) अस्मान् (अव) रक्ष ॥३॥४
भावार्थः - मनुष्यस्यात्मा चेद् बलवानस्ति तदा तं न कोऽपि पराजेतुं समर्थः ॥३॥
टिप्पणीः -
२. ऋ० १।७।४, साम० ५९८, अथ० २०।७०।१०। ३. अयमर्थो दयानन्दस्वामिन ऋग्भाष्यादुद्धृतः। ४. ऋग्भाष्ये दयानन्दस्वामिना मन्त्रेऽस्मिन्निन्द्रशब्देनेश्वरो गृहीतः।