Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 800
ऋषिः - वसिष्ठो मैत्रावरुणिः
देवता - इन्द्राग्नी
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
3
इ꣡न्द्रे꣢ अ꣣ग्ना꣡ नमो꣢꣯ बृ꣣ह꣡त्सु꣢वृ꣣क्ति꣡मेर꣢꣯यामहे । धि꣣या꣡ धेना꣢꣯ अव꣣स्य꣡वः꣢ ॥८००॥
स्वर सहित पद पाठइ꣡न्द्रे꣢꣯ । अ꣣ग्ना꣢ । न꣡मः꣢꣯ । बृ꣣ह꣢त् । सु꣣वृक्ति꣢म् । सु꣣ । वृक्ति꣢म् । आ । ई꣣रयामहे । धिया꣢ । धे꣡नाः꣣ । अ꣣वस्य꣡वः꣢ ॥८००॥
स्वर रहित मन्त्र
इन्द्रे अग्ना नमो बृहत्सुवृक्तिमेरयामहे । धिया धेना अवस्यवः ॥८००॥
स्वर रहित पद पाठ
इन्द्रे । अग्ना । नमः । बृहत् । सुवृक्तिम् । सु । वृक्तिम् । आ । ईरयामहे । धिया । धेनाः । अवस्यवः ॥८००॥
सामवेद - मन्त्र संख्या : 800
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 9; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 2; सूक्त » 4; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 9; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 2; सूक्त » 4; मन्त्र » 1
Acknowledgment
विषयः - तत्रेन्द्राग्निनाम्ना जीवात्मपरमात्मविषयमाह।
पदार्थः -
(अवस्यवः) रक्षणेच्छवः वयम् (इन्द्रे) जीवात्मानमधिकृत्य(अग्ना) परमात्मानमधिकृत्य च (बृहत्) महत् (नमः) नमस्कारम्, (सुवृक्तिम्) निर्दोषां क्रियाम्। [सुष्ठु वृक्तयो दोषवर्जनानि यस्यां तां क्रियाम्१। वृजी वर्जने] (धिया) ध्यानेन बुद्ध्या च सह (धेनाः) स्तुतिरूपा वाचश्च। [धेना इति वाङ्नाम। निघं० १।११।] (आ ईरयामहे)प्रेरयामः ॥१॥
भावार्थः - परमात्मानमुपासितुं जीवात्मानमुद्बोधयितुं च नमस्कारो गुणवर्णनरूपा स्तुतिः तदनुरूपा क्रिया च सततमपेक्ष्यते। पुरुषार्थ विना केवलं नमस्कारेण स्तुत्या वा न किमपि सिद्ध्यति ॥१॥
टिप्पणीः -
३. ऋ० ७।९४।४। १. सुवृक्तिभिः सुष्ठु वृक्तयो दोषवर्जनानि याभ्यस्ताभिः क्रियाभिः—इति ऋ० १।६२।१ भाष्ये द०।