Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 802
ऋषिः - वसिष्ठो मैत्रावरुणिः देवता - इन्द्राग्नी छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
6

ता꣡ वां꣢ गी꣣र्भि꣡र्वि꣢प꣣न्यु꣢वः꣣ प्र꣡य꣢स्वन्तो हवामहे । मे꣣ध꣡सा꣢ता सनि꣣ष्य꣡वः꣢ ॥८०२॥

स्वर सहित पद पाठ

ता꣢ । वा꣣म् । गीर्भिः꣢ । वि꣣पन्यु꣡वः꣢ । प्र꣡य꣢꣯स्वन्तः । ह꣣वामहे । मेध꣡सा꣢ता । मे꣣ध꣢ । सा꣣ता । सनिष्य꣡वः꣢ ॥८०२॥


स्वर रहित मन्त्र

ता वां गीर्भिर्विपन्युवः प्रयस्वन्तो हवामहे । मेधसाता सनिष्यवः ॥८०२॥


स्वर रहित पद पाठ

ता । वाम् । गीर्भिः । विपन्युवः । प्रयस्वन्तः । हवामहे । मेधसाता । मेध । साता । सनिष्यवः ॥८०२॥

सामवेद - मन्त्र संख्या : 802
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 9; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 2; सूक्त » 4; मन्त्र » 3
Acknowledgment

पदार्थः -
(ता) तौ (वाम्) इन्द्राग्नी जीवात्मपरमात्मानौ युवाम् (विपन्युवः) विशिष्टस्तुतिमन्तः। [विपूर्वात् पण व्यवहारे स्तुतौ च इत्यतो बाहुलकादौणादिको युच् प्रत्ययः। जसि छान्दसः उवङादेशः।] (प्रयस्वन्तः२) प्रयासवन्तः पुरुषार्थिनः। [प्रयः प्रयासः तद्वन्तः, प्रपूर्वाद् यसु प्रयत्ने इत्यतः क्विप्।] (सनिष्यवः) संभजनकामाः श्रद्धालवो वयम्। [षण सम्भक्तौ, सनिशब्दात् आत्मन इच्छायामर्थे क्यचि लालसायां सुक्, तत उः।] (मेधसाता) मेधसातौ संगमप्राप्तिनिमित्ताय। [मेधः संगमः, मेधृ हिंसायां संगमे च, तस्य सातिः प्राप्तिः तन्निमित्ताय, निमित्तसप्तम्येषा। ‘सुपां सुलुक्०। अ० ७।१।३९’ इति विभक्तेर्डादेशः।] (गीर्भिः) वेदवाग्भिः (हवामहे) आह्वयामः ॥३॥

भावार्थः - परमात्मानं जीवात्मानं चानुकूलयितुं वाचा स्तुतिः, कायेन प्रयासः, मनसा श्रद्धा च त्रयमप्यपेक्ष्यते ॥३॥ अस्मिन् खण्डे विविधानामग्नीनाम् आचार्यनृपत्योः प्राणोदानयोः ब्रह्मक्षत्रयोः जीवात्मपरमात्मनोश्च वर्णनादेतत्खण्डस्य पूर्वखण्डेन सह संगतिर्वेद्या ॥

इस भाष्य को एडिट करें
Top