Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 805
ऋषिः - भृगुर्वारुणिर्जमदग्निर्भार्गवो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
4

अ꣣या꣢ चि꣣त्तो꣢ वि꣣पा꣢꣫नया꣣ ह꣡रिः꣢ पवस्व꣣ धा꣡र꣢या । यु꣢जं꣣ वा꣡जे꣢षु चोदय ॥८०५॥

स्वर सहित पद पाठ

अ꣣या꣢ । चि꣣त्तः꣢ । वि꣣पा꣢ । अ꣣न꣡या꣢ । ह꣡रिः꣢꣯ । प꣣वस्व । धा꣡र꣢꣯या । यु꣡ज꣢꣯म् । वा꣡जे꣢꣯षु । चो꣣दय ॥८०५॥


स्वर रहित मन्त्र

अया चित्तो विपानया हरिः पवस्व धारया । युजं वाजेषु चोदय ॥८०५॥


स्वर रहित पद पाठ

अया । चित्तः । विपा । अनया । हरिः । पवस्व । धारया । युजम् । वाजेषु । चोदय ॥८०५॥

सामवेद - मन्त्र संख्या : 805
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 10; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 3; सूक्त » 1; मन्त्र » 3
Acknowledgment

पदार्थः -
हे पवमान सोम ! हे पवित्रकर्त्तः परमात्मन् ! (विपा) मेधाविना मया। [विप इति मेधाविनामसु पठितम्। निघं० ३।१५।] (चित्तः) विज्ञातः, (हरिः) दुःखानां पापानां च हर्ता त्वम् (अया) अयया सवेगया। [अय गतौ, पचाद्यच्। स्त्रियाम् अया। ततस्तृतीयैकवचने ‘सुपां सुलुक्०’। अ० ७।१।३९ इति विभक्तेराकारादेशः।] (अनया) एतया पाविकया (धारया) आनन्दधारया (पवस्व) स्तोतारं मां पुनीहि। (युजम्) सखायं माम् (वाजेषु) जीवनसंग्रामेषु (चोदय) विजयाय प्रेरय ॥३॥

भावार्थः - स्तुतः परमात्मा स्तोतॄनानन्दधारया संसिच्य बलं प्रदाय देवासुरसंग्रामेषु विजयिनं कुरुते ॥३॥

इस भाष्य को एडिट करें
Top