Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 810
ऋषिः - शंयुर्बार्हस्पत्यः देवता - इन्द्रः छन्दः - प्रगाथः(विषमा बृहती, समा सतोबृहती) स्वरः - पञ्चमः काण्ड नाम -
4

स꣡ त्वं न꣢꣯श्चित्र वज्रहस्त धृष्णु꣣या꣢ म꣣ह꣡ स्त꣢वा꣣नो꣡ अ꣢द्रिवः । गा꣡मश्व꣢꣯ꣳ र꣣꣬थ्य꣢꣯मिन्द्र꣣ सं꣡ कि꣢र स꣣त्रा꣢꣫ वाजं꣣ न꣢ जि꣣ग्यु꣡षे꣢ ॥८१०॥

स्वर सहित पद पाठ

सः꣢ । त्वम् । नः꣣ । चित्र । वज्रहस्त । वज्र । हस्त । धृष्णुया꣢ । म꣣हः꣢ । स्त꣣वानः꣢ । अ꣣द्रिवः । अ । द्रिवः । गा꣢म् । अ꣡श्व꣢꣯म् । र꣣थ्य꣢म् । इ꣣न्द्र । स꣢म् । कि꣣र । सत्रा꣢ । वा꣡ज꣢꣯म् । न । जि꣣ग्यु꣡षे꣢ ॥८१०॥


स्वर रहित मन्त्र

स त्वं नश्चित्र वज्रहस्त धृष्णुया मह स्तवानो अद्रिवः । गामश्वꣳ रथ्यमिन्द्र सं किर सत्रा वाजं न जिग्युषे ॥८१०॥


स्वर रहित पद पाठ

सः । त्वम् । नः । चित्र । वज्रहस्त । वज्र । हस्त । धृष्णुया । महः । स्तवानः । अद्रिवः । अ । द्रिवः । गाम् । अश्वम् । रथ्यम् । इन्द्र । सम् । किर । सत्रा । वाजम् । न । जिग्युषे ॥८१०॥

सामवेद - मन्त्र संख्या : 810
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 12; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 4; सूक्त » 1; मन्त्र » 2
Acknowledgment

पदार्थः -
हे (चित्र) अद्भुतगुणकर्मस्वभाव, (वज्रहस्त) दण्डसामर्थ्ययुक्त शस्त्रास्त्रपाणे वा, (अद्रिवः) शत्रुभिर्न विदारयितुं शक्य (इन्द्र) परमैश्वर्य परमात्मन् जीवात्मन् वा ! (स्तवानः) स्तूयमानः (धृष्णुया) धर्षकबलेन। [धृष्णुशब्दात् तृतीयैकवचने ‘सुपां सुलुक्’ अ० ७।१।३९ इति विभक्तेर्याजादेशः।] (महः) महान् (सः) प्रसिद्धः (त्वम् नः) अस्मभ्यम् (रथ्यम्) शरीररथवाहकम् (गाम्) प्राणबलम् (अश्वम्) इन्द्रियबलं च (संकिर) प्रयच्छ, (न) यथा (जिग्युषे) संग्रामं जितवते योद्धृजनाय। [जि जये धातोर्लिटः क्वसौ चतुर्थ्येकवचने रूपम्।] (सत्रा) सदा (वाजम्) अन्नधनादिपुरस्कारं नृपत्यादिः संकिरति प्रयच्छति ॥२॥२ अत्रोपमालङ्कारः ॥२॥

भावार्थः - अध्यात्मविजयार्थं बाह्यविजयार्थं चाप्यात्मोद्बोधनेन साकं परमात्मनोऽपि साहाय्यमपेक्ष्यते ॥२॥

इस भाष्य को एडिट करें
Top