Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 824
ऋषिः - श्रुतकक्षः सुकक्षो वा आङ्गिरसः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
9
ए꣣वा꣡ ह्यसि꣢꣯ वीर꣣यु꣢रे꣣वा꣡ शूर꣢꣯ उ꣣त꣢ स्थि꣣रः꣢ । ए꣣वा꣢ ते꣣ रा꣢ध्यं꣣ म꣡नः꣢ ॥८२४॥
स्वर सहित पद पाठए꣣व꣢ । हि । अ꣡सि꣢꣯ । वी꣣रयुः꣢ । ए꣣व꣢ । शू꣡रः꣢꣯ । उ꣣त꣢ । स्थि꣣रः꣢ । ए꣣व꣢ । ते꣣ । रा꣡ध्य꣢꣯म् । म꣡नः꣢꣯ ॥८२४॥
स्वर रहित मन्त्र
एवा ह्यसि वीरयुरेवा शूर उत स्थिरः । एवा ते राध्यं मनः ॥८२४॥
स्वर रहित पद पाठ
एव । हि । असि । वीरयुः । एव । शूरः । उत । स्थिरः । एव । ते । राध्यम् । मनः ॥८२४॥
सामवेद - मन्त्र संख्या : 824
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 18; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 6; सूक्त » 1; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 18; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 6; सूक्त » 1; मन्त्र » 1
Acknowledgment
विषयः - तत्र प्रथमा ऋक् पूर्वार्चिके २३२ क्रमाङ्के परमात्मनृपत्योर्विषये व्याख्याता। अत्र स्वान्तरात्मा समुद्बोध्यते।
पदार्थः -
हे मदीय अन्तरात्मन् ! त्वम् (एव हि) सत्यमेव (वीरयुः) वीरान् कामयमानः (असि) वर्तसे, (एव) सत्यमेव त्वम् (शूरः) वीरः (उत) अपि च (स्थिरः) विपत्सु युद्धेषु च अविचलः असि। (एव) सत्यमेव (ते) तव (मनः) चित्तम् (राध्यम्) साद्धुं योग्यम् अस्ति ॥१॥
भावार्थः - मनुष्यस्यात्मा चेत् स्वशक्तिं परिचिनुयात् तर्हि जगति महान्ति कर्माणि कर्त्तुं शक्नुयात् ॥१॥
टिप्पणीः -
१. ऋ० ८।९२।२८, अथ० २०।६०।१। साम० २३२। ऋषिः श्रुतकक्षः।