Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 83
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - अग्निः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम - आग्नेयं काण्डम्
6
त्वे꣣ष꣡स्ते꣢ धू꣣म꣡ ऋ꣢ण्वति दि꣣वि꣢꣫ सं च्छु꣣क्र꣡ आत꣢꣯तः । सू꣢रो꣣ न꣢꣫ हि द्यु꣣ता꣢꣫ त्वं कृ꣣पा꣡ पा꣢वक꣣ रो꣡च꣢से ॥८३॥
स्वर सहित पद पाठत्वे꣣षः꣢ । ते꣣ । धूमः꣢ । ऋ꣣ण्वति । दि꣣वि꣢ । सन् । शु꣣क्रः꣢ । आ꣡त꣢꣯तः । आ । त꣣तः । सू꣡रः꣢꣯ । न । हि । द्यु꣣ता꣢ । त्वम् । कृ꣣पा꣢ । पा꣣वक । रो꣡च꣢꣯से ॥८३॥
स्वर रहित मन्त्र
त्वेषस्ते धूम ऋण्वति दिवि सं च्छुक्र आततः । सूरो न हि द्युता त्वं कृपा पावक रोचसे ॥८३॥
स्वर रहित पद पाठ
त्वेषः । ते । धूमः । ऋण्वति । दिवि । सन् । शुक्रः । आततः । आ । ततः । सूरः । न । हि । द्युता । त्वम् । कृपा । पावक । रोचसे ॥८३॥
सामवेद - मन्त्र संख्या : 83
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 9;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 9;
Acknowledgment
विषयः - अथ परमात्माग्नेः प्रतापः प्रभावश्च वर्ण्यते।
पदार्थः -
हे परमात्माग्ने ! (ते) तव (त्वेषः) दीप्तः। त्विष दीप्तौ। (धूमः) धूमवत् प्रसरणशीलः शत्रुप्रकम्पकः प्रभावः। धूनोति कम्पयतीति धूमः। धूञ् कम्पने धातोः इषियुधीन्धिदसिश्याधूसूभ्यो मक् उ० १।१४५ इति मक् प्रत्ययः। (ऋण्वति) सर्वत्र गच्छति, प्रसरति। ऋण्वति गतिकर्मा। निघं० २।४। यः (दिवि) आत्माकाशे (आततः) विस्तीर्णः (सन्) भवन् (शुक्रः) शुद्धिकरः जायते। शुचिर् पूतीभावे धातोर्णिजन्तादौणादिको रन् प्रत्ययः (उ० २।२९)। हे (पावक) शुद्धिकर्तः परमात्मन् ! (द्युता) दीप्त्या। अत्र द्युत दीप्तौ इत्यस्मात् क्विप् प्रत्ययः। (सूरः न) सूर्यः इव (हि) निश्चयेन (त्वम् कृपा) प्रभावसामर्थ्येन। कृपू सामर्थ्ये धातोः निष्पन्नस्य कृप् शब्दस्य तृतीयैकवचने रूपम्। (रोचसे) आरोचमानो भवसि ॥३॥२ अत्रोपमालङ्कारः। श्लेषेण यज्ञाग्निपक्षेऽप्यर्थो योज्यः ॥३॥
भावार्थः - यथा यज्ञाग्नेर्ज्वालाजालजटिलः प्रदीप्तः सुगन्धिर्धूम आकाशे प्रसृतः सन् शुद्धिकरो रोगहरश्च जायते, तथैव परमात्मनः प्रभावो मनुष्यस्यात्मनि हृदये च प्रसृतः सन्नज्ञानादिदोषप्रकम्पकः शोधकश्च भवति। अपि च यथा सूर्यः स्वकीयेन तेजसा द्योतते तथा परमात्माग्निः स्वप्रभावसामर्थ्येन रोचते ॥३॥
टिप्पणीः -
१. ऋ० ६।२।६, सञ्छुक्र इत्यत्र षञ्छुक्र इति पाठः। अथ० १८।४।५९, ऋषिः अथर्वा, देवता यमः, त्वेषस्ते धूम ऊर्णोतु दिविषञ्छुक्र आततः इति पूर्वार्द्धपाठः। २. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयं भौतिकाग्निविद्याविषये व्याख्यातः।