Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 830
ऋषिः - जमदग्निर्भार्गवः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
4

ए꣣त꣡ अ꣢सृग्र꣣मि꣡न्द꣢वस्ति꣣रः꣢ प꣣वि꣡त्र꣢मा꣣श꣡वः꣢ । वि꣡श्वा꣢न्य꣣भि꣡ सौभ꣢꣯गा ॥८३०॥

स्वर सहित पद पाठ

ए꣣ते꣢ । अ꣣सृग्रम् । इ꣡न्द꣢꣯वः । ति꣣रः꣢ । प꣣वि꣡त्र꣢म् । आ꣣श꣡वः꣢ । वि꣡श्वा꣢꣯नि । अ꣣भि꣢ । सौ꣡भ꣢꣯गा । सौ । भ꣣गा ॥८३०॥


स्वर रहित मन्त्र

एत असृग्रमिन्दवस्तिरः पवित्रमाशवः । विश्वान्यभि सौभगा ॥८३०॥


स्वर रहित पद पाठ

एते । असृग्रम् । इन्दवः । तिरः । पवित्रम् । आशवः । विश्वानि । अभि । सौभगा । सौ । भगा ॥८३०॥

सामवेद - मन्त्र संख्या : 830
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 1; सूक्त » 1; मन्त्र » 1
Acknowledgment

पदार्थः -
(एते) इमे (तिरः) तिरश्चीनगत्या (आशवः) आशु अग्रगामिनः (इन्दवः) तेजस्विनः उपासकाः (पवित्रम्) पवित्रव्यवहारम् (असृग्रम्) असृजन् सृजन्ति। [सृज विसर्गे धातोः लडर्थे लङि प्रथमपुरुषबहुवचने असृजन् इति प्राप्ते ‘बहुलं छन्दसि’ अ० ७।१।८ इति रुडागमः, वर्णव्यत्ययेन जकारस्य गकारः, नकारस्य च मकारः।] अत एव (विश्वानि) सर्वाणि (सौभगा) सौभगानि, सौभाग्यानि (अभि) अभिप्राप्नुवन्ति ॥१॥

भावार्थः - जगदीश्वरोपासनया स्वहृदयं पवित्रं कृत्वा समाजे सर्वान् प्रति पवित्रो व्यवहारश्चेत् क्रियते तर्हि नूनं सर्वाणि सौभाग्यानि प्राप्यन्ते ॥१॥

इस भाष्य को एडिट करें
Top