Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 842
ऋषिः - कश्यपो मारीचः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
4

पु꣣नानो꣡ वरि꣢꣯वस्कृ꣣ध्यू꣢र्जं꣣ ज꣡ना꣢य गिर्वणः । ह꣡रे꣢ सृजा꣣न꣢ आ꣣शि꣡र꣢म् ॥८४२॥

स्वर सहित पद पाठ

पु꣣नानः꣢ । व꣡रि꣢꣯वः । कृ꣣धि । ऊ꣡र्ज꣢꣯म् । ज꣡ना꣢꣯य । गि꣣र्वणः । गिः । वनः । ह꣡रे꣢꣯ । सृ꣣जा꣢नः । आ꣣शि꣡र꣢म् । आ꣣ । शि꣡र꣢꣯म् ॥८४२॥


स्वर रहित मन्त्र

पुनानो वरिवस्कृध्यूर्जं जनाय गिर्वणः । हरे सृजान आशिरम् ॥८४२॥


स्वर रहित पद पाठ

पुनानः । वरिवः । कृधि । ऊर्जम् । जनाय । गिर्वणः । गिः । वनः । हरे । सृजानः । आशिरम् । आ । शिरम् ॥८४२॥

सामवेद - मन्त्र संख्या : 842
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 4; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 1; सूक्त » 4; मन्त्र » 2
Acknowledgment

पदार्थः -
हे (गिर्वणः) गीर्भ्यः वेदादिवाङ्मयेभ्यः वननीय सेवनीय, (हरे) दोषदुर्व्यसनदुःखादीनां हर्तः आचार्य ! (पुनानः) आचरणस्य पवित्रतामापादयन्, किञ्च (आशिरम्) परिपक्वं ज्ञानम्। [श्रीञ् पाके, आश्रीयते परिपच्यते इति आशीः।] (सृजानः) उत्पादयन् त्वम् (जनाय) शिष्यजनाय (वरिवः) धनम्। [वरिवः इति धननाम। निघं० २।१०।] (ऊर्जम्) शारीरं बलं प्राणवत्तां च (कृधि) कुरु ॥२॥

भावार्थः - शास्त्राणामध्यापनं, चरित्रस्य पावनं, दोषाणां हरणं, व्यायामप्राणायामादिद्वारा बलप्राणयोः प्रदानमर्थकर्या विद्यायाः शिक्षणं च गुरूणां कर्त्तव्यमस्ति ॥२॥

इस भाष्य को एडिट करें
Top