Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 848
ऋषिः - मधुच्छन्दा वैश्वामित्रः
देवता - मित्रावरुणौ
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
9
ऋ꣣ते꣡न꣢ मित्रावरुणावृतावृधावृतस्पृशा । क्र꣡तुं꣢ बृ꣣ह꣡न्त꣢माशाथे ॥८४८॥
स्वर सहित पद पाठऋ꣣ते꣡न꣢ । मि꣣त्रा । मि । त्रा । वरुणौ । ऋतावृधौ । ऋत । वृधौ । ऋतस्पृशा । ऋत । स्पृशा । क्र꣡तु꣢꣯म् । बृ꣣ह꣡न्त꣢म् । आ꣣शाथेइ꣡ति꣢ ॥८४८॥
स्वर रहित मन्त्र
ऋतेन मित्रावरुणावृतावृधावृतस्पृशा । क्रतुं बृहन्तमाशाथे ॥८४८॥
स्वर रहित पद पाठ
ऋतेन । मित्रा । मि । त्रा । वरुणौ । ऋतावृधौ । ऋत । वृधौ । ऋतस्पृशा । ऋत । स्पृशा । क्रतुम् । बृहन्तम् । आशाथेइति ॥८४८॥
सामवेद - मन्त्र संख्या : 848
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 6; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 2; सूक्त » 2; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 6; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 2; सूक्त » 2; मन्त्र » 2
Acknowledgment
विषयः - अथ पुनर्ब्रह्मक्षत्रविषयमाह।
पदार्थः -
हे (ऋतस्पृशा) ऋतं सत्यं ज्ञानं सत्यं कर्म च स्पृशतः प्राप्नुतः यौ तौ, (ऋतावृधा) ऋतं सत्यं ज्ञानं सत्यं कर्म च वर्धयतः यौ तौ। [पूर्वपदान्तस्य दीर्घश्छान्दसः। सुपां सुलुक्० अ० ७।१।३९ इति विभक्तेराकारादेशः] (मित्रावरुणौ) ब्राह्मणक्षत्रियौ। युवाम् (ऋतेन) सत्यज्ञानेन सत्यकर्मणा च (बृहन्तम्) विशालम् (क्रतुम्) राष्ट्रयज्ञम् (आशाथे) आनशाथे व्याप्नुतः। [अशू व्याप्तौ संघाते च। छन्दसि लुङ्लङ्लिटः। अ० ३।४।६ इति वर्तमाने लिट्। वा छन्दसि सर्वे विधयो भवन्तीति नुडभावः] ॥२॥२
भावार्थः - ब्राह्मणाः क्षत्रियाश्च सत्यं ज्ञानं सत्यं कर्म च स्वयमुपादायान्यांश्च शिक्षयित्वा राष्ट्रोन्नयनयज्ञं निर्वहतः ॥२॥
टिप्पणीः -
१. ऋ० १।२।८। २. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयं सूर्यवाय्वोः प्राणापानयोश्च विषये व्याख्यातः ॥