Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 86
ऋषिः - वसूयव आत्रेयः देवता - अग्निः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम - आग्नेयं काण्डम्
5

य꣡द्वाहि꣢꣯ष्ठं꣣ त꣢द꣣ग्न꣡ये꣢ बृ꣣ह꣡द꣢र्च विभावसो । म꣡हि꣢षीव꣣ त्व꣢द्र꣣यि꣢꣫स्त्वद्वाजा꣣ उ꣡दी꣢रते ॥८६॥

स्वर सहित पद पाठ

य꣢त् । वा꣡हि꣢꣯ष्ठम् । तत् । अ꣣ग्न꣡ये꣢ । बृ꣣ह꣢त् । अ꣣र्च । विभावसो । विभा । वसो । म꣡हि꣢꣯षी । इ꣣व । त्व꣢त् । र꣣यिः꣢ । त्वत् । वा꣡जाः꣢꣯ । उत् । ई꣣रते ॥८६॥


स्वर रहित मन्त्र

यद्वाहिष्ठं तदग्नये बृहदर्च विभावसो । महिषीव त्वद्रयिस्त्वद्वाजा उदीरते ॥८६॥


स्वर रहित पद पाठ

यत् । वाहिष्ठम् । तत् । अग्नये । बृहत् । अर्च । विभावसो । विभा । वसो । महिषी । इव । त्वत् । रयिः । त्वत् । वाजाः । उत् । ईरते ॥८६॥

सामवेद - मन्त्र संख्या : 86
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 9;
Acknowledgment

पदार्थः -
(यत्) स्तोत्रम् (वाहिष्ठम्) वोढृतमम्, अतिशयेन सहृदयगतभक्ति- भावस्य प्रापकम् भवेत् (तत्) स्तोत्रम् (अग्नये) तेजःस्वरूपाय परमात्मने, देयमिति शेषः। तदनुसारम् हे (विभावसो) दीप्तिधन जीवात्मन् ! त्वं परमात्मानम् (बृहत्) बहु (अर्च) पूजय। हे परमात्मन् ! (त्वत्) तव सकाशात् (महिषी२ इव) महती भूमिरिव। महिष इति महन्नाम। निघं० ३।३, ततः स्त्रियां महिषी। भूरिति महिषी। तै० ब्रा० ३।९।४।५। (रयिः) सर्वं धनम्, (त्वत्) तव सकाशात् (वाजाः) अन्नानि बलानि च (उदीरते) उद्गच्छन्ति, उत्पद्यन्ते। उत् पूर्वः ईर गतौ कम्पने च, ततः लटि प्रथमपुरुषबहुवचने रूपम् ॥६॥३ अत्रोपमालङ्कारः। यथा महती पृथिवी त्वद् उदीर्ते, तथा त्वद् रयिर्वाजाश्च उदीरते इति भावः ॥६॥

भावार्थः - यथा परमात्मनाऽस्माकमुपकाराय भूमी रचिता, तथैव निखिलं धनधान्यादिकं बलपराक्रमसद्गुणादिकं चाप्यस्मभ्यं प्रदत्तमस्ति। अतो हार्दिकेन भक्तिभावेन स सवैर्वन्दनीयः ॥६॥

इस भाष्य को एडिट करें
Top