Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 873
ऋषिः - ययातिर्नाहुषः
देवता - पवमानः सोमः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम -
4
इ꣢न्दु꣣रि꣡न्द्रा꣢य पवत꣣ इ꣡ति꣢ दे꣣वा꣡सो꣢ अब्रुवन् । वा꣣च꣡स्पति꣢꣯र्मखस्यते꣣ वि꣢श्व꣣स्ये꣡शा꣢न꣣ ओ꣡ज꣢सः ॥८७३॥
स्वर सहित पद पाठइ꣡न्दुः꣢꣯ । इ꣡न्द्रा꣢꣯य । प꣣वते । इ꣡ति꣢꣯ । दे꣣वा꣡सः꣢ । अ꣣ब्रुवन् । वाचः꣢ । प꣡तिः꣢꣯ । म꣣खस्यते । वि꣡श्व꣢꣯स्य । ई꣡शा꣢꣯नः । ओ꣡ज꣢꣯सः ॥८७३॥
स्वर रहित मन्त्र
इन्दुरिन्द्राय पवत इति देवासो अब्रुवन् । वाचस्पतिर्मखस्यते विश्वस्येशान ओजसः ॥८७३॥
स्वर रहित पद पाठ
इन्दुः । इन्द्राय । पवते । इति । देवासः । अब्रुवन् । वाचः । पतिः । मखस्यते । विश्वस्य । ईशानः । ओजसः ॥८७३॥
सामवेद - मन्त्र संख्या : 873
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 15; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 5; सूक्त » 2; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 15; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 5; सूक्त » 2; मन्त्र » 2
Acknowledgment
विषयः - अथ ब्रह्मानन्दज्ञानयोरुभयोर्विषयमाह।
पदार्थः -
(इन्दुः) ज्ञानरसः ब्रह्मानन्दरसो वा (इन्द्राय) जीवात्मने (पवते) क्षरति (इति) एवम् (देवासः) विद्वांसो जनाः (अब्रुवन्) कथयन्ति। (वाचःपतिः) वागीशः परमेश्वरः आचार्यो वा (मखस्यते) आनन्दप्रदानयज्ञम् अध्यापनयज्ञं वा आचरति। [मघशब्दात् इच्छार्थे क्यचि ‘सर्वप्रातिपदिकानां क्यचि लालसायां सुगसुकौ। वा० ७।१।५१’ इत्यनेन लालसायां सुगागमः।] यः (विश्वस्य ओजसः) सर्वस्य ब्रह्मबलस्य ज्ञानबलस्य वा (ईशानः) अधीश्वरः वर्त्तते। अतस्तत्सकाशाद् ब्रह्मबलं ज्ञानबलं च सर्वैः प्राप्तव्यमित्याशयः ॥२॥
भावार्थः - आत्मैव खलु ज्ञानस्य ग्रहीता सुखस्य च भोक्तेति विद्वदनुभवः। परमेश्वरस्य सकाशाद् ब्रह्मानन्दमाचार्यस्य सकाशाज्ज्ञानं च ये गृह्णन्ति तेषां जीवनं सफलं जायते ॥२॥
टिप्पणीः -
१. ऋ० ९।१०१।५, अथ० २०।१३७।५।