Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 88
ऋषिः - पूरुरात्रेयः देवता - अग्निः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम - आग्नेयं काण्डम्
5

बृ꣣हद्व꣢꣫यो꣣ हि꣢ भा꣣न꣡वेऽर्चा꣢꣯ दे꣣वा꣢या꣣ग्न꣡ये꣢ । यं꣢ मि꣣त्रं꣡ न प्रश꣢꣯स्तये꣣ म꣡र्ता꣢सो दधि꣣रे꣢ पु꣣रः꣢ ॥८८॥

स्वर सहित पद पाठ

बृ꣣ह꣢त् । व꣡यः꣢꣯ । हि । भा꣣न꣡वे꣢ । अ꣡र्च꣢꣯ । दे꣣वा꣡य꣢ । अ꣣ग्न꣡ये꣢ । यम् । मि꣣त्र꣢म् । मि꣣ । त्रं꣢ । न । प्र꣡श꣢꣯स्तये । प्र । श꣣स्तये । म꣡र्ता꣢꣯सः । द꣣धिरे꣢ । पु꣣रः꣢ । ॥८८॥


स्वर रहित मन्त्र

बृहद्वयो हि भानवेऽर्चा देवायाग्नये । यं मित्रं न प्रशस्तये मर्तासो दधिरे पुरः ॥८८॥


स्वर रहित पद पाठ

बृहत् । वयः । हि । भानवे । अर्च । देवाय । अग्नये । यम् । मित्रम् । मि । त्रं । न । प्रशस्तये । प्र । शस्तये । मर्तासः । दधिरे । पुरः । ॥८८॥

सामवेद - मन्त्र संख्या : 88
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 9;
Acknowledgment

पदार्थः -
हे मानव ! त्वम् (भानवे) आदित्यवद् भासमानाय, (देवाय) दिव्यगुणकर्मयुक्ताय (अग्नये) परमात्मने (बृहत्) दीर्घम् (वयः) आयुः (अर्च२) समर्पय, (यम्) परमात्मानम् (मित्रं न) सखायम् इव (प्रशस्तये) प्रशस्तजीवनाय (मर्तासः) उपासकाः मनुष्याः (पुरः) पुरस्तात् (दधिरे) स्थापयन्ति। छन्दसि लुङ्लङ्लिटः अ० ३।४।६ इति सूत्रेण वेदे वर्तमानाद्यर्थेऽपि लिटः प्रयोगः सम्मतः ॥८॥३ अत्र मित्रं न इत्युपमालङ्कारः ॥८॥

भावार्थः - ये जगन्नेतारः सुज्ञाः सदाचरणप्रिया महान्तो जना भवन्ति ते सदैव परमात्मानं पुरतो निधाय ततः सत्पेरणां च प्राप्य सर्वाणि कार्याणि कुर्वन्ति, तेन तेषां प्रशस्तिः ख्यातिश्च सर्वत्र प्रसरति। तथैव हे नरा नार्यश्च ! युष्माभिरपि स्वकीयं सर्वमायुर्दिव्यगुणकर्मयुक्ताय ज्योतिष्मते परमात्मने समर्प्य तत्प्रेरणया कर्त्तव्येषु कर्मसु मतिं कृत्वा लोके प्रशस्तिः प्राप्तव्या ॥८॥

इस भाष्य को एडिट करें
Top