Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 881
ऋषिः - गोषूक्त्यश्वसूक्तिनौ काण्वायनौ
देवता - इन्द्रः
छन्दः - उष्णिक्
स्वरः - ऋषभः
काण्ड नाम -
10
ये꣢न꣣ ज्यो꣡ती꣢ꣳष्या꣣य꣢वे꣣ म꣡न꣢वे च वि꣣वे꣡दि꣢थ । म꣣न्दानो꣢ अ꣣स्य꣢ ब꣣र्हि꣢षो꣣ वि꣡ रा꣢जसि ॥८८१॥
स्वर सहित पद पाठये꣡न꣢꣯ । ज्यो꣡ती꣢꣯ꣳषि । आ꣡व꣡ये꣢ । म꣡न꣢꣯वे । च꣣ । विवे꣡दि꣢थ । म꣣न्दानः꣢ । अ꣣स्य꣢ । ब꣡र्हि꣢षः꣢ । वि । रा꣡जसि ॥८८१॥
स्वर रहित मन्त्र
येन ज्योतीꣳष्यायवे मनवे च विवेदिथ । मन्दानो अस्य बर्हिषो वि राजसि ॥८८१॥
स्वर रहित पद पाठ
येन । ज्योतीꣳषि । आवये । मनवे । च । विवेदिथ । मन्दानः । अस्य । बर्हिषः । वि । राजसि ॥८८१॥
सामवेद - मन्त्र संख्या : 881
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 18; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 6; सूक्त » 2; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 18; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 6; सूक्त » 2; मन्त्र » 2
Acknowledgment
विषयः - अथ परमेश्वरमाचार्यं नृपतिं च सम्बोधयति।
पदार्थः -
हे इन्द्र परमात्मन् आचार्य राजन् वा ! (येन) आनन्देन ज्ञानेन बलेन वा, त्वम् (आयवे) कर्मयोगिने पुरुषार्थिने। [एति कर्मशीलो भवतीत्यायुः ‘छन्दसीणः’। उ० १।२ इत्यनेन इण् गतौ धातोः उः प्रत्ययः।] (मनवे च) मननशीलाय च जनाय। [मन्यते जानाति मनुते अवबुध्यते वा यः स मनुः। ‘शृस्वृ०’। उ० १।१० इत्यनेन मन ज्ञाने, मनु अवबोधने वा धातोः उः प्रत्ययः।] (ज्योतींषि) अन्तःप्रकाशान् बाह्यप्रकाशान् वा (विवेदिथ) लम्भयसि, तेन आनन्देन ज्ञानेन बलेन वा (मन्दानः) मोदमानः त्वम् (अस्य बर्हिषः) अस्मिन् बर्हिषि हृदयासने, दर्भासने, राजासने वा (वि राजसि) विशेषेण शोभसे ॥२॥
भावार्थः - परमेश्वरादाचार्यान्नृपतेश्चानन्दं ज्ञानं बलं च प्राप्य सर्वे सुखिनो विज्ञानवन्तो बलवन्तः पुरुषार्थिनो मननशीलाश्च सन्तो जीवने सफला भवन्तु ॥२॥
टिप्पणीः -
१. ऋ० ८।१५।५, अथ० २०।६१।२।