Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 891
ऋषिः - अहमीयुराङ्गिरसः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
4
प꣡व꣢मानस्य ते꣣ र꣢सो꣣ द꣢क्षो꣣ वि꣡ रा꣢जति द्यु꣣मा꣢न् । ज्यो꣢ति꣣र्वि꣢श्व꣣꣬ꣳ स्व꣢꣯र्दृ꣣शे꣢ ॥८९१॥
स्वर सहित पद पाठप꣡व꣢꣯मानस्य । ते꣣ । र꣡सः꣢꣯ । द꣡क्षः꣢꣯ । वि । रा꣣जति । द्युमा꣣न् । ज्यो꣡तिः꣢꣯ । वि꣡श्व꣢꣯म् । स्वः꣢ । दृ꣣शे꣢ ॥८९१॥
स्वर रहित मन्त्र
पवमानस्य ते रसो दक्षो वि राजति द्युमान् । ज्योतिर्विश्वꣳ स्वर्दृशे ॥८९१॥
स्वर रहित पद पाठ
पवमानस्य । ते । रसः । दक्षः । वि । राजति । द्युमान् । ज्योतिः । विश्वम् । स्वः । दृशे ॥८९१॥
सामवेद - मन्त्र संख्या : 891
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 2; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 1; सूक्त » 2; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 2; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 1; सूक्त » 2; मन्त्र » 3
Acknowledgment
विषयः - अथ पुनरपि तयोरेव विषयो वर्ण्यते।
पदार्थः -
हे परमात्मन् आचार्य वा ! (पवमानस्य) चित्तशोधकस्य (ते) तव (द्युमान्) दीप्तिमान् (रसः) आनन्दरसो ज्ञानरसो वा (दक्षः) ब्रह्मबलं च (विराजति) विशेषेण शोभते। सः (स्वःदृशे) मोक्षसुखं द्रष्टुम् (विश्वं ज्योतिः) सम्पूर्णाम् अन्तर्दृष्टिं, ददातीति शेषः ॥३॥
भावार्थः - आचार्यस्य सेवां परमात्मन उपासनां च कृत्वा लोकविद्यां ब्रह्मविद्यां परमाह्लादं ब्रह्मवर्चसं दिव्यदृष्टिञ्च प्राप्य जनाः मोक्षमधिगन्तुमर्हन्ति ॥३॥
टिप्पणीः -
१. ऋ० ९।६१।१८ ‘पव॑मान॒ रस॒स्तव॒’ इति प्रथमः पादः।