Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 900
ऋषिः - बृहन्मतिराङ्गिरसः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
4
अ꣣य꣢꣫ꣳ स यो दि꣣व꣡स्परि꣢꣯ रघु꣣या꣡मा प꣣वि꣢त्र꣣ आ꣢ । सि꣡न्धो꣢रू꣣र्मा꣡ व्यक्ष꣢꣯रत् ॥९००॥
स्वर सहित पद पाठअ꣣य꣢म् । सः । यः । दि꣣वः꣢ । प꣡रि꣢꣯ । र꣡घुया꣡मा꣢ । र꣣घु । या꣡मा꣢꣯ । पवि꣡त्रे꣢ । आ । सि꣡न्धोः꣢꣯ । ऊ꣣र्मा꣢ । व्य꣡क्ष꣢꣯रत् । वि꣣ । अ꣡क्ष꣢꣯रत् ॥९००॥
स्वर रहित मन्त्र
अयꣳ स यो दिवस्परि रघुयामा पवित्र आ । सिन्धोरूर्मा व्यक्षरत् ॥९००॥
स्वर रहित पद पाठ
अयम् । सः । यः । दिवः । परि । रघुयामा । रघु । यामा । पवित्रे । आ । सिन्धोः । ऊर्मा । व्यक्षरत् । वि । अक्षरत् ॥९००॥
सामवेद - मन्त्र संख्या : 900
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 4; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 2; सूक्त » 1; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 4; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 2; सूक्त » 1; मन्त्र » 3
Acknowledgment
विषयः - अथ ब्रह्मानन्दरसप्रवाहं वर्णयति।
पदार्थः -
(अयम्) एषः अस्माभिरनुभूयमानः (सः) प्रसिद्धः ब्रह्मानन्दरसो वर्तते। (यः रघुयामा) शीघ्रगतिः सन् (दिवः परि) आनन्दमयात् परमेश्वरात्। [दिवु धातोरर्थेषु मोदार्थोऽपि परिगणितः।] (पवित्रे आ) पवित्रे हृदये आगम्य (सिन्धोः ऊर्मौ) आत्मसमुद्रस्य तरङ्गे (व्यक्षरत्) परिस्रवति ॥३॥
भावार्थः - यथा सोमौषधिरसो दशापवित्रात् क्षरित्वा द्रोणकलशे पतति यथा वा चन्द्रिकारसः पवित्रादन्तरिक्षात् क्षरित्वा समुद्रे पतति तथैव परमात्मनः सकाशादागत आनन्दरसः पवित्राद् हृदयात् क्षरित्वाऽन्तरात्मानमागच्छति ॥३॥
टिप्पणीः -
१. ऋ० ९।३९।४।