Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 905
ऋषिः - भृगुर्वारुणिर्जमदग्निर्भार्गवो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
5

प꣡व꣢मान रु꣣चा꣡रु꣢चा꣣ दे꣡व꣢ दे꣣वे꣡भ्यः꣢ सु꣣तः꣢ । वि꣢श्वा꣣ व꣢सू꣣न्या꣡ वि꣢श ॥९०५॥

स्वर सहित पद पाठ

प꣡व꣢꣯मान । रु꣣चा꣡रु꣢चा । रु꣣चा꣢ । रु꣣चा । दे꣡व꣢꣯ । दे꣣वे꣡भ्यः꣢ । सु꣣तः꣢ । वि꣡श्वा꣢꣯ । व꣡सू꣢꣯नि । आ । वि꣣श ॥९०५॥


स्वर रहित मन्त्र

पवमान रुचारुचा देव देवेभ्यः सुतः । विश्वा वसून्या विश ॥९०५॥


स्वर रहित पद पाठ

पवमान । रुचारुचा । रुचा । रुचा । देव । देवेभ्यः । सुतः । विश्वा । वसूनि । आ । विश ॥९०५॥

सामवेद - मन्त्र संख्या : 905
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 5; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 2; सूक्त » 2; मन्त्र » 2
Acknowledgment

पदार्थः -
हे (पवमान) चित्तं शोधयन् (देव) मोददायक सर्वप्रकाशक परमात्मन् ! (देवेभ्यः) प्रकाशकेभ्यः ज्ञानसाधनेभ्यः मनोबुद्धिचक्षुःश्रोत्रघ्राण-त्वग्रसनाभ्यः, तेभ्यः प्रकाशनशक्तिं दातुमित्यर्थः(सुतः) प्रवृत्तः त्वम् (रुचारुचा) अधिकाधिकया प्रकाशनशक्त्या (विश्वा वसूनि) सर्वाणि निवासकानि तानि मनोबुद्ध्यादीनि (आ विश) प्रविश। त्वत्प्रदत्तया ज्ञानप्रदानशक्त्या भूयो भूयोऽनुप्राणितान्येतानि मनोबुद्ध्यादीनि सदैव ज्ञानार्जने जीवात्मनः साधनतां प्रयान्त्वित्यभिप्रायः ॥२॥

भावार्थः - यथा सूर्यप्रकाशेन सर्वे ग्रहोपग्रहाः प्रकाशिता जायन्ते तथैव परमेश्वरेण प्रकाशितानि मनोबुद्धिनेत्रादीनि ज्ञानग्राहकाणि भवन्ति ॥२॥

इस भाष्य को एडिट करें
Top