Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 910
ऋषिः - गृत्समदः शौनकः
देवता - मित्रावरुणौ
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
7
अ꣣यं꣡ वां꣢ मित्रावरुणा सु꣣तः꣡ सोम꣢꣯ ऋतावृधा । म꣢꣫मेदि꣣ह꣡ श्रु꣢त꣣ꣳ ह꣡व꣢म् ॥९१०॥
स्वर सहित पद पाठअ꣣य꣢म् । वा꣣म् । मित्रा । मि । त्रा । वरुणा । सुतः꣢ । सो꣡मः꣢꣯ । ऋ꣣तावृधा । ऋत । वृधा । म꣡म꣢꣯ । इत् । इ꣣ह꣢ । श्रु꣣तम् ह꣡व꣢꣯म् ॥९१०॥
स्वर रहित मन्त्र
अयं वां मित्रावरुणा सुतः सोम ऋतावृधा । ममेदिह श्रुतꣳ हवम् ॥९१०॥
स्वर रहित पद पाठ
अयम् । वाम् । मित्रा । मि । त्रा । वरुणा । सुतः । सोमः । ऋतावृधा । ऋत । वृधा । मम । इत् । इह । श्रुतम् हवम् ॥९१०॥
सामवेद - मन्त्र संख्या : 910
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 7; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 3; सूक्त » 2; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 7; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 3; सूक्त » 2; मन्त्र » 1
Acknowledgment
विषयः - तत्रादौ आत्ममनसोर्नृपतिप्रधानमन्त्रिणोश्च विषयमाह।
पदार्थः -
प्रथमः—आत्ममनःपक्षे। हे (ऋतावृधा) सत्यस्य वर्धकौ (मित्रावरुणा) आत्ममनसी। (वाम्) युवाभ्याम् (अयम्) एषः (सोमः) ज्ञानकर्मरसः (सुतः) अभिषुतः अस्ति। युवाम् (इह) अत्र (मम) मदीयम् (हवम्) उद्बोधनम् (श्रुतम्) शृणुतम् [श्रु श्रवणे भ्वादिः। ‘बहुलं छन्दसि’। अ० २।४।७३ इति शपो लुकि ‘श्रुवः शृ च’। अ ३।१।७४ इति न प्रवर्तते] ॥ द्वितीयः—नृपतिप्रधानमन्त्रिपक्षे। हे (ऋतावृधा) न्यायस्य वर्धकौ (मित्रावरुणा) नृपतिप्रधानमन्त्रिणौ२ ! (वाम्) युवाभ्याम् (अयम्) एषः (सोमः) राजकरः (सुतः) अर्पितः अस्ति। युवाम् (इह) राष्ट्रे (मम) मदीयम् (हवम्) राष्ट्रोन्नतेः आह्वानम् (श्रुतम्) शृणुतम् ॥१॥३ अत्र श्लेषालङ्कारः ॥१॥
भावार्थः - मनुष्यैः स्वकीये आत्ममनसी उद्बोध्य सर्वविधः समुत्कर्षः। नृपतिप्रधानामात्ययोश्च कर्तव्यमस्ति यत् तौ प्रजाभ्यो राजकरं गृहीत्वा प्रजाहिताय तस्य व्ययं कुर्याताम् ॥१॥
टिप्पणीः -
१. ऋ० २।४१।४। २. मित्रवरुणा प्राणोदानवद् राजप्रधानामात्यौ इति ऋ० ४।३९।५ भाष्ये द०। ३. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमम् अध्यापकाध्येतृविषये व्याचष्टे।