Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 920
ऋषिः - दृढच्युत आगस्त्यः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
3
सं꣢ दे꣣वैः꣡ शो꣢भते꣣ वृ꣡षा꣢ क꣣वि꣢꣫र्यो꣣नाव꣡धि꣢ प्रि꣣यः꣢ । प꣡व꣢मानो꣣ अ꣡दा꣢भ्यः ॥९२०॥
स्वर सहित पद पाठसम् । दे꣣वैः꣢ । शो꣣भते । वृ꣡षा꣢꣯ । क꣡विः꣢ । यो꣡नौ꣢꣯ । अ꣡धि꣢꣯ । प्रि꣣यः꣢ । प꣡व꣢꣯मानः । अ꣡दा꣢꣯भ्यः । अ । दा꣣भ्यः ॥९२०॥
स्वर रहित मन्त्र
सं देवैः शोभते वृषा कविर्योनावधि प्रियः । पवमानो अदाभ्यः ॥९२०॥
स्वर रहित पद पाठ
सम् । देवैः । शोभते । वृषा । कविः । योनौ । अधि । प्रियः । पवमानः । अदाभ्यः । अ । दाभ्यः ॥९२०॥
सामवेद - मन्त्र संख्या : 920
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 10; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 4; सूक्त » 1; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 10; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 4; सूक्त » 1; मन्त्र » 2
Acknowledgment
विषयः - अथ पुनरपि गुरुशिष्यविषयमाह।
पदार्थः -
(वृषा) ज्ञानवर्षकः, (कविः) मेधावी, (प्रियः) शिष्याणां वत्सलः, (अदाभ्यः) दब्धुं वञ्चयितुमशक्यः (पवमानः) पवित्रयिता आचार्यः (योनौ अधि) गृहे, गुरुकुले इत्यर्थः। [योनिरिति गृहनाम। निघं० १।१२।] (देवैः) दिव्यगुणयुक्तैः शिष्यैः सह (सं शोभते) संविभाति ॥२॥
भावार्थः - सुयोग्या गुरवः सुयोग्याः शिष्याश्च परस्परं मिलित्वाऽतितरां शोभन्ते ॥२॥
टिप्पणीः -
१. ऋ० ९।२५।३, ‘वृ॒त्र॒हा दे॑व॒वीत॑मः’ इति तृतीयः पादः।