Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 923
ऋषिः - सप्तर्षयः
देवता - पवमानः सोमः
छन्दः - प्रगाथः(विषमा बृहती, समा सतोबृहती)
स्वरः - पञ्चमः
काण्ड नाम -
4
त꣢वा꣣हं꣡ नक्त꣢꣯मु꣣त꣡ सो꣢म ते꣣ दि꣡वा꣢ दुहा꣣नो꣡ ब꣢भ्र꣣ ऊ꣡ध꣢नि । घृ꣣णा꣡ तप꣢꣯न्त꣣म꣢ति꣣ सू꣡र्यं꣢ प꣣रः꣡ श꣢कु꣣ना꣡ इ꣢व पप्तिम ॥९२३॥
स्वर सहित पद पाठत꣡व꣢꣯ । अ꣡ह꣢म् । न꣡क्त꣢꣯म् । उ꣣त꣢ । सो꣣म । ते । दि꣡वा꣢꣯ । दु꣣हानः꣢ । ब꣣भ्रो । ऊ꣡ध꣢꣯नि । घृ꣣णा꣢ । त꣡प꣢꣯न्तम् । अ꣡ति꣢꣯ । सू꣡र्य꣢꣯म् । प꣣रः꣢ । श꣣कुनाः꣢ । इ꣣व । पप्तिम ॥९२३॥
स्वर रहित मन्त्र
तवाहं नक्तमुत सोम ते दिवा दुहानो बभ्र ऊधनि । घृणा तपन्तमति सूर्यं परः शकुना इव पप्तिम ॥९२३॥
स्वर रहित पद पाठ
तव । अहम् । नक्तम् । उत । सोम । ते । दिवा । दुहानः । बभ्रो । ऊधनि । घृणा । तपन्तम् । अति । सूर्यम् । परः । शकुनाः । इव । पप्तिम ॥९२३॥
सामवेद - मन्त्र संख्या : 923
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 11; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 4; सूक्त » 2; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 11; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 4; सूक्त » 2; मन्त्र » 2
Acknowledgment
विषयः - आचार्यसाहाय्येन दोषान् दूरीकृत्य सम्प्रति परमात्मानमाह।
पदार्थः -
हे (बभ्रो) भरणपोषणकर्तः (सोम) आनन्दरसागार परमेश्वर ! (तव) त्वदीयः (अहम्) उपासकः (ते) तव (ऊधनि) आनन्दरसकोशात्। [पञ्चम्यर्थे सप्तमी।] (नक्तम्) रात्रौ (उत) अपि च (दिवा) दिवसे (दुहानः) आनन्दरसम् आददानः अस्मि। किञ्च, (घृणा) तेजसा। [घृणिः इति ज्वलतो नामधेयम्। निरु० १।१७। तृतीयैकवचने ‘सुपां सुलुक्०’ इति विभक्तेर्डादेशः।] (तपन्तम्) ज्वलन्तम् (सूर्यम्) आदित्यम् अपि (अति) अतिक्रम्य, सूर्यादप्यधिकतरं तेजस्विनः सन्तः इत्यर्थः (शकुनाः इव) पक्षिणः इव (परः) भौतिकाज्जगतः परस्तात् विद्यमानं परमात्मानं त्वां प्रति (पप्तिम) वयं पतामः। [पत्लृ धातोर्लडर्थे लिटि ‘तनिपत्योश्छन्दसि’। अ० ६।४।९९ इत्युपधालोपः] ॥२॥ अत्रोपमालङ्कारः ॥२॥
भावार्थः - मनुष्यस्तेजस्वी तपस्वी च भूत्वा परमात्मानं साक्षात्कृत्य तस्यानन्दरसमास्वाद्य मोक्षपदं लभेत ॥२॥
टिप्पणीः -
१. ऋ० ९।१०७।२०, ‘तवाहं’ ‘दुहानो’ इत्यत्र क्रमेण ‘उ॒ताहं’ ‘स॒ख्याय॒’ इति पाठः।