Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 935
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
3
प꣡रि꣢ प्रि꣣या꣢ दि꣣वः꣢ क꣣वि꣡र्वया꣢꣯ꣳसि न꣣꣬प्त्यो꣢꣯र्हि꣣तः꣢ । स्वा꣣नै꣡र्या꣢ति क꣣वि꣡क्र꣢तुः ॥९३५॥
स्वर सहित पद पाठप꣡रि꣢꣯ । प्रि꣣या꣢ । दि꣣वः꣢ । क꣣विः꣢ । व꣡या꣢꣯ꣳसि । न꣣प्त्योः꣢ । हि꣣तः꣢ । स्वा꣣नैः꣢ । या꣣ति । कवि꣡क्र꣢तुः । क꣣वि꣢ । क्र꣣तुः ॥९३५॥
स्वर रहित मन्त्र
परि प्रिया दिवः कविर्वयाꣳसि नप्त्योर्हितः । स्वानैर्याति कविक्रतुः ॥९३५॥
स्वर रहित पद पाठ
परि । प्रिया । दिवः । कविः । वयाꣳसि । नप्त्योः । हितः । स्वानैः । याति । कविक्रतुः । कवि । क्रतुः ॥९३५॥
सामवेद - मन्त्र संख्या : 935
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 16; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 6; सूक्त » 1; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 16; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 6; सूक्त » 1; मन्त्र » 1
Acknowledgment
विषयः - तत्र प्रथमा ऋक् पूर्वार्चिके ४७६ क्रमाङ्के परमात्मन आनन्दरसविषये व्याख्याता। अत्र गुरुशिष्यविषयो वर्ण्यते।
पदार्थः -
शिष्याणाम् (नप्त्योः) आत्ममनसोः (हितः) हितकरः, (कविक्रतुः) मेधावी सत्कर्मा च आचार्यः (दिवः) यशसा प्रकाशितस्य गुरुकुलस्य (प्रिया वयांसि) प्रियान् शिष्यान् (स्वानैः) शास्त्रोपदेशकर्तृभिः शब्दैः सह (परियाति) परि प्राप्नोति ॥१॥
भावार्थः - यः स्वयं विद्वान् सदाचारवान् अध्यापनकुशलश्चास्ति स एवाचार्यः शिष्यान् सुयोग्यान् कर्तुं प्रभवति ॥१॥
टिप्पणीः -
१. ऋ० ९।९।१, ‘सु॒वा॒नो या॑ति’ इति पाठः। साम० ४७६, (ऋषिः) काश्यपोऽसितः।