Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 937
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
7
प्र꣢प्र꣣ क्ष꣡या꣢य꣣ प꣡न्य꣢से꣣ ज꣡ना꣢य꣣ जु꣡ष्टो꣢ अ꣣द्रु꣡हः꣢ । वी꣣꣬त्य꣢꣯र्ष꣣ प꣡नि꣢ष्टये ॥९३७॥
स्वर सहित पद पाठप्र꣡प्र꣢꣯ । प्र । प्र꣣ । क्ष꣡या꣢꣯य । प꣡न्य꣢꣯से । ज꣡ना꣢꣯य । जु꣡ष्टः꣢꣯ । अ꣣द्रु꣡हः꣢ । अ꣣ । द्रु꣡हः꣢꣯ । वी꣣ति꣢ । अ꣣र्ष । प꣡नि꣢꣯ष्टये ॥९३७॥
स्वर रहित मन्त्र
प्रप्र क्षयाय पन्यसे जनाय जुष्टो अद्रुहः । वीत्यर्ष पनिष्टये ॥९३७॥
स्वर रहित पद पाठ
प्रप्र । प्र । प्र । क्षयाय । पन्यसे । जनाय । जुष्टः । अद्रुहः । अ । द्रुहः । वीति । अर्ष । पनिष्टये ॥९३७॥
सामवेद - मन्त्र संख्या : 937
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 16; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 6; सूक्त » 1; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 16; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 6; सूक्त » 1; मन्त्र » 3
Acknowledgment
विषयः - अथ नवस्नातक उच्यते।
पदार्थः -
हे सोम विद्यारसस्नात नवस्नातक ! (जुष्टः) जनानां प्रिय, (अद्रुहः) अद्रोग्धा त्वम् (क्षयाय) प्रजासु सद्गुणादीनां निवासाय। [क्षि निवासगत्योः। ‘क्षयो निवासे’। अ० ६।१।२०१ इत्याद्युदात्तः।] (पन्यसे जनाय) पनीयसे अतिशयेन स्तोत्रे जनाय, तादृशं जनमुत्पादयितुमिति भावः। [पण व्यवहारे स्तुतौ च। पनति स्तौतीति पनः, अतिशयेन पनः पनीयान्, तस्मै पन्यसे। ईकारलोपश्छान्दसः।] (पनिष्टये) शुद्धव्यवहाराय च (वीती) वीत्या तीव्रगत्या। [वी गत्यादौ। वीती इत्यस्मात् तृतीयैकवचने ‘सुपां सुलुक्०’ इति पूर्वसवर्णदीर्घः।] (प्र प्र अर्ष) प्रकर्षेण विचर ॥३॥
भावार्थः - नवस्नातकानामिदं कर्तव्यं यत्ते गुरुकुलाद् बहिरागत्य वेदार्थानुपदिशन्तो जनान् सद्गुणकर्मयुक्तान् परमेश्वरस्तोतॄन् शुद्धव्यवहारनिष्ठांश्च सम्पादयेयुः ॥३॥
टिप्पणीः -
१. ऋ० ९।९।२, ‘अ॒द्रुहः’ ‘पनिष्टये’ इत्यत्र क्रमेण ‘अद्रुहे॑’ ‘चनिष्ठया’ इति पाठः।