Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 940
ऋषिः - अग्निश्चाक्षुषः देवता - पवमानः सोमः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम -
11

सो꣡मः꣢ पुना꣣न꣢ ऊ꣣र्मि꣢꣫णाव्यं꣣ वा꣢रं꣣ वि꣡ धा꣢वति । अ꣡ग्रे꣢ वा꣣चः꣡ पव꣢꣯मानः꣣ क꣡नि꣢क्रदत् ॥९४०॥

स्वर सहित पद पाठ

सो꣡मः꣢꣯ । पु꣣नानः꣢ । ऊ꣣र्मि꣡णा꣢ । अ꣡व्य꣢꣯म् । वा꣡र꣢꣯म् । वि । धा꣣वति । अ꣡ग्रे꣢꣯ । वा꣣चः꣢ । प꣡व꣢꣯मानः । क꣡नि꣢꣯क्रदत् ॥९४०॥


स्वर रहित मन्त्र

सोमः पुनान ऊर्मिणाव्यं वारं वि धावति । अग्रे वाचः पवमानः कनिक्रदत् ॥९४०॥


स्वर रहित पद पाठ

सोमः । पुनानः । ऊर्मिणा । अव्यम् । वारम् । वि । धावति । अग्रे । वाचः । पवमानः । कनिक्रदत् ॥९४०॥

सामवेद - मन्त्र संख्या : 940
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 18; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 6; सूक्त » 3; मन्त्र » 1
Acknowledgment

पदार्थः -
(सोमः) रसनिधिः परमेश्वरः (ऊर्मिणा) आनन्दरसतरङ्गेण (पुनानः) पवित्रतामापादयन् (अव्यम्) अव्ययम् अविनश्वरम् (वारम्) वरणीयम् आत्मानम् (वि धावति) वेगेन गच्छति। सः (वाचः) स्तुतिगिरः (अग्रे) पूर्वमेव (पवमानः) प्रवहन् (कनिक्रदत्) कलकलशब्दं कुर्वन्, भवति इति शेषः ॥१॥ अत्र ब्रह्मानन्दरसप्रवाहे कारणभूतायाः स्तुतिवाचः पूर्वमेव ब्रह्मानन्दप्रवाहवर्णनात् कारणात् प्राक् कार्योदयरूपोऽतिशयोक्ति- रलङ्कारः। किञ्च वस्तुतः ब्रह्मानन्दप्रवाहे ऊर्मेः कलकलशब्दस्य चाभावात् तद्वर्णनेऽसम्बन्धे सम्बन्धातिशयोक्तिः ॥१॥

भावार्थः - परमात्मध्याने मग्नः स्तोता परमात्मसकाशान्निर्झरन्तीमानन्द- तरङ्गिणीं स्वात्माभ्यन्तरे समाविशन्तीमनुभूय कृतार्थो जायते ॥१॥

इस भाष्य को एडिट करें
Top