Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 954
ऋषिः - पावकोऽग्निर्बार्हस्पत्यो वा, गृहपतियविष्ठौ सहसः पुत्रावन्यतरो वा देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम -
8

इ꣡न्द्र꣢स्तुरा꣣षा꣢ण्मि꣣त्रो꣢꣫ न ज꣣घा꣡न꣢ वृ꣣त्रं꣢꣫ यति꣣र्न꣢ । बि꣣भे꣡द꣢ ब꣣लं꣢꣫ भृगु꣣र्न꣡ स꣢सा꣣हे꣢꣫ शत्रू꣣न्म꣢दे꣣ सो꣡म꣢स्य ॥९५४॥

स्वर सहित पद पाठ

इ꣡न्द्रः꣢꣯ । तु꣣राषा꣢ट् । मि꣣त्रः꣢ । मि꣣ । त्रः꣢ । न । ज꣣घा꣡न꣢ । वृ꣣त्र꣢म् । य꣡तिः꣢꣯ । न । बि꣣भे꣡द꣢ । ब꣣ल꣢म् । भृ꣡गुः꣢꣯ । न । स꣣साहे꣢ । श꣡त्रू꣢꣯न् । म꣡दे꣢꣯ । सो꣡म꣢꣯स्य ॥९५४॥


स्वर रहित मन्त्र

इन्द्रस्तुराषाण्मित्रो न जघान वृत्रं यतिर्न । बिभेद बलं भृगुर्न ससाहे शत्रून्मदे सोमस्य ॥९५४॥


स्वर रहित पद पाठ

इन्द्रः । तुराषाट् । मित्रः । मि । त्रः । न । जघान । वृत्रम् । यतिः । न । बिभेद । बलम् । भृगुः । न । ससाहे । शत्रून् । मदे । सोमस्य ॥९५४॥

सामवेद - मन्त्र संख्या : 954
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 22; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 6; सूक्त » 7; मन्त्र » 3
Acknowledgment

पदार्थः -
(इन्द्रः) मनुष्यस्यात्मा (मित्रः न) सूर्यः इव (तुराषाट्) सत्वरं विघ्नानां पराजेता भवति। [छन्दसि सहः अ० ३।२।६३ इति सहेर्ण्विः प्रत्ययः। ‘सहेः साढः सः।’ अ० ८।३।५६ इति षत्वम्। तूरं तुर्णं सहते अभिभवति विघ्नादीनिति तुराषाट्।] (यतिः न) संन्यासी इव (वृत्रं) पापदुर्व्यसनादिकं (जघान) हन्ति। (भृगुः न) तपस्वी इव। [भृज्जति तपसा शरीरमिति भृगुः। भ्रस्ज पाके धातोः ‘प्रथिम्रदिभ्रस्जां सम्प्रसारणं सलोपश्च उ० १।२८’ इति कुः प्रत्ययो धातोः सकारस्य लोपश्च] (बलम्) आच्छादकम् अज्ञानम्। [बल संवरणे।] (बिभेद) भिनत्ति। अपि च (सोमस्य) वीररसस्य (मदे) उत्साहे (शत्रून्) आन्तरान् बाह्यांश्च रिपून् (ससहे) अभिभवति। [जघान, बिभेद, ससाहे इति सर्वत्र वर्तमानेऽर्थे लिट्] ॥३॥ अत्र मालोपमालङ्कारः ॥३॥

भावार्थः - वीररसस्य मदे मनुष्यस्यात्मा निखिलान्यज्ञानविघ्नपापादीनि पराजेतुं प्रभवति ॥३॥ अस्मिन् खण्डे परमात्मजीवात्मनोर्विषयस्य वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिर्वेद्या ॥

इस भाष्य को एडिट करें
Top