Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 959
ऋषिः - कश्यपो मारीचः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
4

के꣣तुं꣢ कृ꣣ण्व꣢न् दि꣣व꣢꣫स्परि꣣ वि꣡श्वा꣢ रू꣣पा꣡भ्य꣢र्षसि । स꣣मुद्रः꣡ सो꣢म पिन्वसे ॥९५९॥

स्वर सहित पद पाठ

के꣣तु꣢म् । कृ꣣ण्व꣢न् । दि꣣वः꣢ । प꣡रि꣢꣯ । वि꣡श्वा꣢꣯ । रु꣣पा꣢ । अ꣣भि꣢ । अ꣣र्षसि । समुद्रः꣢ । स꣣म् । उद्रः꣢ । सो꣣म । पिन्वसे ॥९५९॥


स्वर रहित मन्त्र

केतुं कृण्वन् दिवस्परि विश्वा रूपाभ्यर्षसि । समुद्रः सोम पिन्वसे ॥९५९॥


स्वर रहित पद पाठ

केतुम् । कृण्वन् । दिवः । परि । विश्वा । रुपा । अभि । अर्षसि । समुद्रः । सम् । उद्रः । सोम । पिन्वसे ॥९५९॥

सामवेद - मन्त्र संख्या : 959
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 2; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 1; सूक्त » 2; मन्त्र » 2
Acknowledgment

पदार्थः -
हे (सोम) जगदुत्पादक परमात्मन् ! त्वम् (दिवः परि) द्योतमानाद् आदित्यात् (केतुं) प्रकाशम् (कृण्वन्) कुर्वन् (विश्वा रूपा) विश्वानि रूपाणि (अभ्यर्षसि२) व्याप्नोषि। स त्वम् (समुद्रः) मेघः इव (पिन्वसे) रसवृष्टिं करोषि ॥२॥ अत्र लुप्तोपमालङ्कारः ॥२॥

भावार्थः - जगदीश्वरो यथा सूर्यात् प्रकाशं पर्जन्याच्च वृष्टिं विसृजति तथैव ज्ञानप्रकाशमानन्दवृष्टिं चापि वितनोति ॥२॥

इस भाष्य को एडिट करें
Top