Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 981
ऋषिः - जमदग्निर्भार्गवः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
2
त्व꣡ꣳ सो꣢म꣣ प꣡रि꣢ स्रव꣣ स्वा꣡दि꣢ष्ठो꣣ अ꣡ङ्गि꣢रोभ्यः । व꣣रिवोवि꣢द्घृ꣣तं꣡ पयः꣢꣯ ॥९८१॥
स्वर सहित पद पाठत्वम् । सो꣣म । प꣡रि꣢ । स्र꣣व । स्वा꣡दि꣢꣯ष्ठ । अ꣡ङ्गि꣢꣯रोभ्यः । व꣣रिवोवि꣢त् । व꣣रिवः । वि꣢त् । घृ꣣त꣢म् । प꣡यः꣢꣯ ॥९८१॥
स्वर रहित मन्त्र
त्वꣳ सोम परि स्रव स्वादिष्ठो अङ्गिरोभ्यः । वरिवोविद्घृतं पयः ॥९८१॥
स्वर रहित पद पाठ
त्वम् । सोम । परि । स्रव । स्वादिष्ठ । अङ्गिरोभ्यः । वरिवोवित् । वरिवः । वित् । घृतम् । पयः ॥९८१॥
सामवेद - मन्त्र संख्या : 981
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 6; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 2; सूक्त » 3; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 6; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 2; सूक्त » 3; मन्त्र » 3
Acknowledgment
विषयः - अथ पुनरपि तमेव विषयमाह।
पदार्थः -
हे (सोम) रसागार परमेश ! (स्वादिष्ठः) मधुरतमः, (वारिवोवित्) ऐश्वर्यस्य लम्भकश्च। [वरिवः इति धननाम। निघं० २।१०।] त्वम् (अङ्गिरोभ्यः) प्राणायामाभ्यासिभ्यो योगसाधकेभ्यः। [प्राणो वा अङ्गिराः श० ६।१।२।२८।] (घृतम्) तेजः (पयः) आनन्दरसं च (परिस्रव) परिक्षर ॥३॥
भावार्थः - ये परमात्मनो ध्याने मग्ना जायन्ते तैः स रसवत्तमो मधुरतमस्तेजस्वितमश्चानुभूयते ॥३॥ अस्मिन् खण्डे परमात्मस्वरूपवर्णनपुरस्सरं तत्स्तुतिकरणात् तदाह्वानात् तत आनन्दरसप्रवाहप्रार्थनाच्चैतत्खण्डस्य पूर्वखण्डेन संगतिरस्तीति विज्ञेयम् ॥
टिप्पणीः -
१. ऋ० ९।६२।९, ‘त्वं सोम’ इत्यत्र ‘त्वमि॑न्दो॒’ इति पाठः।