Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 994
ऋषिः - भृगुर्वारुणिर्जमदग्निर्भार्गवो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
7
अ꣡र्षा꣢ सोम द्यु꣣म꣡त्त꣢मो꣣ऽ꣡भि द्रोणा꣢꣯नि꣣ रो꣡रु꣢वत् । सी꣢द꣣न्यो꣢नौ꣣ व꣢ने꣣ष्वा꣢ ॥९९४॥
स्वर सहित पद पाठअ꣡र्ष꣢꣯ । सो꣣म । द्युम꣡त्त꣢मः । अ꣣भि꣢ । द्रो꣡णा꣢꣯नि । रो꣡रु꣢꣯वत् । सी꣡द꣢꣯न् । यो꣡नौ꣢꣯ । व꣡ने꣢꣯षु । आ ॥९९४॥
स्वर रहित मन्त्र
अर्षा सोम द्युमत्तमोऽभि द्रोणानि रोरुवत् । सीदन्योनौ वनेष्वा ॥९९४॥
स्वर रहित पद पाठ
अर्ष । सोम । द्युमत्तमः । अभि । द्रोणानि । रोरुवत् । सीदन् । योनौ । वनेषु । आ ॥९९४॥
सामवेद - मन्त्र संख्या : 994
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 11; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 4; सूक्त » 1; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 11; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 4; सूक्त » 1; मन्त्र » 1
Acknowledgment
विषयः - तत्र प्रथमा ऋक् पूर्वार्चिके ५०३ क्रमाङ्के परमात्मविषये वानप्रस्थविषये च व्याख्याता। अत्र प्रकारान्तरेण परमात्मपक्ष एव प्रदर्श्यते।
पदार्थः -
हे (सोम) जगत्स्रष्टः परमात्मन् ! (योनौ) अन्तरिक्षे (वनेषु) उदकेषु (आसीदन्) तिष्ठन्, (द्युमत्तमः) अतिशयेन द्युतिमान्, (रोरुवत्) गर्जनां कुर्वन् विद्युदग्निरिव (योनौ) गृहे (वनेषु) अरण्येषु च, सर्वत्रैवेत्यर्थः (आसीदन्) आतिष्ठन् (द्युमत्तमः) तेजस्वितमः (रोरुवत्) कर्त्तव्यमुपदिशन् त्वम् (द्रोणानि अभि) आत्ममनोबुद्ध्यादीन् द्रोणकलशान् प्रति (अर्ष) आगच्छ ॥१॥ अत्र श्लेषमूलो वाचकलुप्तोपमालङ्कारः ॥१॥
भावार्थः - गृहे वाऽरण्ये वा, गिरौ वा गह्वरेषु वा, सरित्सु वा समुद्रे वा, भुवि वा दिवि वा, विद्युति वाऽन्तरिक्षे वा, देहे वाऽऽत्मनि वा सर्वत्रैव विराजमानोऽपि जगदीश्वरो यावद् ध्यानेन प्रकाशितो न जायते तावत् प्रत्यक्षतां नो याति ॥१॥
टिप्पणीः -
१. ऋ० ९।६५।१९, ‘सीदञ्छ्येनो न योनिमा’ इति पाठः। साम० ५०३, ऋषिः भृगुः।