Loading...
ऋग्वेद मण्डल - 1 के सूक्त 100 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 1/ सूक्त 100/ मन्त्र 1
    ऋषिः - वृषागिरो महाराजस्य पुत्रभूता वार्षागिरा ऋज्राश्वाम्बरीषसहदेवभयमानसुराधसः देवता - इन्द्र: छन्दः - पङ्क्तिः स्वरः - पञ्चमः

    स यो वृषा॒ वृष्ण्ये॑भि॒: समो॑का म॒हो दि॒वः पृ॑थि॒व्याश्च॑ स॒म्राट्। स॒ती॒नस॑त्वा॒ हव्यो॒ भरे॑षु म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥

    स्वर सहित पद पाठ

    सः । यः । वृषा॑ । वृष्ण्ये॑भिः॑ । सम्ऽओ॑काः । म॒हः । दि॒वः । पृ॒थि॒व्याः । च॒ । स॒म्ऽराट् । स॒ती॒नऽस॑त्वा । हव्यः॑ । भरे॑षु । म॒रुत्वा॑न् । नः॒ । भ॒व॒तु॒ । इन्द्रः॑ । ऊ॒ती ॥


    स्वर रहित मन्त्र

    स यो वृषा वृष्ण्येभि: समोका महो दिवः पृथिव्याश्च सम्राट्। सतीनसत्वा हव्यो भरेषु मरुत्वान्नो भवत्विन्द्र ऊती ॥

    स्वर रहित पद पाठ

    सः। यः। वृषा। वृष्ण्येभिः। सम्ऽओकाः। महः। दिवः। पृथिव्याः। च। सम्ऽराट्। सतीनऽसत्वा। हव्यः। भरेषु। मरुत्वान्। नः। भवतु। इन्द्रः। ऊती ॥ १.१००.१

    ऋग्वेद - मण्डल » 1; सूक्त » 100; मन्त्र » 1
    अष्टक » 1; अध्याय » 7; वर्ग » 8; मन्त्र » 1

    अन्वयः - हे मनुष्या यूयं यो वृषा समोकाः सतीनसत्वा हव्यो मरुत्वान्महो दिवः पृथिव्याश्च लोकानां मध्ये सम्राडिन्द्रोऽस्ति स यथा वृष्ण्येभिर्भरेषु न ऊत्यूतये भवतु तथा प्रयतध्वम् ॥ १ ॥

    पदार्थः -
    (सः) (यः) (वृषा) वृष्टिहेतुः (वृष्ण्येभिः) वृषसु भवैः किरणैः। वाच्छन्दसि सर्वे विधयो भवन्तीति प्रकृतिभावाभावेऽल्लोपः। (समोकाः) सम्यगोकांसि निवासस्थानानि यस्मिन् सः (महः) महतः (दिवः) प्रकाशस्य (पृथिव्याः) भूमेर्मध्ये (च) सर्वमूर्त्तलोकद्रव्यसमुच्चये (सम्राट्) यः सम्यग्राजते सः (सतीनसत्वा) यः सतीनं जलं सादयति सः। सतीनमित्युदकनाम०। निघं० १। १२। (हव्यः) होतुमादातुमर्हः (भरेषु) पालनपोषणनिमित्तेषु पदार्थेषु (मरुत्वान्) प्रशस्ता मरुतो विद्यन्तेऽस्य सः (नः) अस्माकम् (भवतु) (इन्द्रः) सूर्यो लोकः (ऊती) ऊतये रक्षणाद्याय। अत्र सुपां सुलुगिति चतुर्थ्या एकवचनस्य पूर्वसवर्णादेशः ॥ १ ॥

    भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। मनुष्यैर्यः परिमाणेन महान् वायुनिमित्तेन प्रसिद्धः प्रकाशस्वरूपः सूर्यलोको वर्त्तते तस्मादनेक उपकारा विद्यया ग्रहीतव्याः ॥ १ ॥

    इस भाष्य को एडिट करें
    Top