ऋग्वेद - मण्डल 1/ सूक्त 119/ मन्त्र 8
ऋषिः - कक्षीवान् दैर्घतमसः
देवता - अश्विनौ
छन्दः - विराड्जगती
स्वरः - निषादः
अग॑च्छतं॒ कृप॑माणं परा॒वति॑ पि॒तुः स्वस्य॒ त्यज॑सा॒ निबा॑धितम्। स्व॑र्वतीरि॒त ऊ॒तीर्यु॒वोरह॑ चि॒त्रा अ॒भीके॑ अभवन्न॒भिष्ट॑यः ॥
स्वर सहित पद पाठअग॑च्छतम् । कृप॑माणम् । प॒रा॒ऽवति॑ । पि॒तुः । स्वस्य॑ । त्यज॑सा । निऽबा॑धितम् । स्वः॑ऽवतीः । इ॒तः । ऊ॒तीः । यु॒वोः । अह॑ । चि॒त्राः । अ॒भीके॑ । अ॒भ॒व॒न् । अ॒भिष्ट॑यः ॥
स्वर रहित मन्त्र
अगच्छतं कृपमाणं परावति पितुः स्वस्य त्यजसा निबाधितम्। स्वर्वतीरित ऊतीर्युवोरह चित्रा अभीके अभवन्नभिष्टयः ॥
स्वर रहित पद पाठअगच्छतम्। कृपमाणम्। पराऽवति। पितुः। स्वस्य। त्यजसा। निऽबाधितम्। स्वःऽवतीः। इतः। ऊतीः। युवोः। अह। चित्राः। अभीके। अभवन्। अभिष्टयः ॥ १.११९.८
ऋग्वेद - मण्डल » 1; सूक्त » 119; मन्त्र » 8
अष्टक » 1; अध्याय » 8; वर्ग » 21; मन्त्र » 3
अष्टक » 1; अध्याय » 8; वर्ग » 21; मन्त्र » 3
विषयः - पुनस्तमेव विषयमाह ।
अन्वयः - हे अश्विनौ स्त्रीपुरुषौ भवन्तौ स्वस्य पितुः परावति स्थितं त्यजसा निबाधितं कृपमाणं परिव्राजं नित्यमगच्छतम्। इत एव युवोरभीकेऽह चित्रा अभिष्टयः स्वर्वतीरूतिरभवन् ॥ ८ ॥
पदार्थः -
(अगच्छतम्) प्राप्नुताम् (कृपमाणम्) कृपां कर्त्तुं शीलम् (परावति) दूरेदेशेऽपि स्थितम् (पितुः) जनकवद्वर्त्तमानस्याध्यापकस्य सकाशात् (स्वस्य) स्वकीयस्य (त्यजसा) संसारसुखत्यागेन (निबाधितम्) पीडितं संन्यासिनम् (स्वर्वतीः) स्वः प्रशस्तानि सुखानि विद्यन्ते यासु ताः (इतः) अस्माद्वर्तमानाद्यतेः (ऊतीः) रक्षणाद्याः (युवोः) युवयोः (अह) निश्चये (चित्राः) अद्भुताः (अभीके) समीपे (अभवन्) भवन्तु (अभिष्टयः) अभीप्सिताः ॥ ८ ॥
भावार्थः - सर्वे मनुष्या पूर्णविद्यमाप्तं रागद्वेषपक्षपातरहितं सर्वेषामुपरि कृपां कुर्वन्तं सर्वथासत्ययुक्तमसत्यत्यागिनं जितेन्द्रियं प्राप्तयोगसिद्धान्तं परावरज्ञं जीवन्मुक्तं संन्यासाश्रमे स्थितमुपदेशाय नित्यं भ्रमन्तं वेदविदं जनं प्राप्य धर्मार्थकाममोक्षाणां सविधानाः सिद्धिः प्राप्नुवन्तु न खल्वीदृग्जनसङ्गोपदेशश्रवणाभ्यां विना कश्चिदपि यथार्थबोधमाप्तुं शक्नोति ॥ ८ ॥
इस भाष्य को एडिट करें