Loading...
ऋग्वेद मण्डल - 1 के सूक्त 135 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 1/ सूक्त 135/ मन्त्र 1
    ऋषिः - परुच्छेपो दैवोदासिः देवता - वायु: छन्दः - निचृदत्यष्टिः स्वरः - गान्धारः

    स्ती॒र्णं ब॒र्हिरुप॑ नो याहि वी॒तये॑ स॒हस्रे॑ण नि॒युता॑ नियुत्वते श॒तिनी॑भिर्नियुत्वते। तुभ्यं॒ हि पू॒र्वपी॑तये दे॒वा दे॒वाय॑ येमि॒रे। प्र ते॑ सु॒तासो॒ मधु॑मन्तो अस्थिर॒न्मदा॑य॒ क्रत्वे॑ अस्थिरन् ॥

    स्वर सहित पद पाठ

    स्ती॒र्णम् । ब॒र्हिः । उप॑ । नः॒ । या॒हि॒ । वी॒तये॑ । स॒हस्रे॑ण । नि॒ऽयुता॑ । नि॒यु॒त्व॒ते॒ । श॒तिनी॑भिः । नि॒यु॒त्व॒ते॒ । तुभ्य॑म् । हि । पू॒र्वऽपी॑तये । दे॒वाः । दे॒वाय॑ । ये॒मि॒रे । प्र । ते॒ । सु॒तासः॑ । मधु॑ऽमन्तः । अ॒स्थि॒र॒न् । मदा॑य । क्रत्वे॑ । अ॒स्थि॒र॒न् ॥


    स्वर रहित मन्त्र

    स्तीर्णं बर्हिरुप नो याहि वीतये सहस्रेण नियुता नियुत्वते शतिनीभिर्नियुत्वते। तुभ्यं हि पूर्वपीतये देवा देवाय येमिरे। प्र ते सुतासो मधुमन्तो अस्थिरन्मदाय क्रत्वे अस्थिरन् ॥

    स्वर रहित पद पाठ

    स्तीर्णम्। बर्हिः। उप। नः। याहि। वीतये। सहस्रेण। निऽयुता। नियुत्वते। शतिनीभिः। नियुत्वते। तुभ्यम्। हि। पूर्वऽपीतये। देवाः। देवाय। येमिरे। प्र। ते। सुतासः। मधुऽमन्तः। अस्थिरन्। मदाय। क्रत्वे। अस्थिरन् ॥ १.१३५.१

    ऋग्वेद - मण्डल » 1; सूक्त » 135; मन्त्र » 1
    अष्टक » 2; अध्याय » 1; वर्ग » 24; मन्त्र » 1

    अन्वयः - हे विद्वन्यस्मै देवाय तुभ्यं हि पूर्वपीतये देवा येमिरे यस्य ते तव मदाय क्रत्वे मधुमन्तः सुतासः प्राऽस्थिरन् भद्राऽस्थिरन् स त्वं नः स्तीर्णं बर्हिर्वीतय उप याहि नियुत्वते सहस्रेण नियुता उपयाहि शतिनीभिस्सह नियुत्वते उपयाहि ॥ १ ॥

    पदार्थः -
    (स्तीर्णम्) आच्छादितम् (बर्हिः) उत्तमं विशालं गृहम् (उप) सामीप्ये (नः) अस्माकम् (याहि) प्राप्नुहि (वीतये) सुखप्राप्तये (सहस्रेण) असंख्यातेन (नियुता) निश्चितेन (नियुत्वते) नियुतो बहवोऽश्वा विद्यन्ते यस्य तस्मै, (शतिनीभिः) शतानि वहवो वीरा विद्यन्ते यासु सेनासु ताभिः (नियुत्वते) बहुबलमिश्रिताय (तुभ्यम्) (हि) खलु (पूर्वपीतये) पूर्वस्य पानाय (देवाः) विद्वांसः (देवाय) दिव्यगुणाय (येमिरे) यच्छेयुः (प्र) (ते) तव (सुतासः) निष्पादिताः (मधुमन्तः) प्रशस्तमधुरगुणयुक्ताः (अस्थिरन्) स्थिराः स्युः (मदाय) हर्षाय (क्रत्वे) प्रज्ञायै (अस्थिरन्) स्थिरा इवाचरेयुः ॥ १ ॥

    भावार्थः - विद्याधर्मजिज्ञासुभिर्मनुष्यैः विदुषामाह्वानं सर्वदा कार्य्यं तेषां सेवासङ्गाभ्या विज्ञानमुन्नीय नित्यमानन्दितव्यम् ॥ १ ॥

    इस भाष्य को एडिट करें
    Top