ऋग्वेद - मण्डल 1/ सूक्त 161/ मन्त्र 1
किमु॒ श्रेष्ठ॒: किं यवि॑ष्ठो न॒ आज॑ग॒न्किमी॑यते दू॒त्यं१॒॑ कद्यदू॑चि॒म। न नि॑न्दिम चम॒सं यो म॑हाकु॒लोऽग्ने॑ भ्रात॒र्द्रुण॒ इद्भू॒तिमू॑दिम ॥
स्वर सहित पद पाठकिम् । ऊँ॒ इति॑ । श्रेष्ठः॑ । किम् । यवि॑ष्ठः । नः॒ । आ । अ॒ज॒ग॒न् । किम् । ई॒य॒ते॒ । दू॒त्य॑म् । कत् । यत् । ऊ॒चि॒म । न । नि॒न्दि॒म॒ । च॒म॒सम् । यः । म॒हा॒ऽकु॒लः । अ॒ग्ने॒ । भ्रा॒तः॒ । द्रुणः॑ । इत् । भू॒तिम् । ऊ॒दि॒म॒ ॥
स्वर रहित मन्त्र
किमु श्रेष्ठ: किं यविष्ठो न आजगन्किमीयते दूत्यं१ कद्यदूचिम। न निन्दिम चमसं यो महाकुलोऽग्ने भ्रातर्द्रुण इद्भूतिमूदिम ॥
स्वर रहित पद पाठकिम्। ऊँ इति। श्रेष्ठः। किम्। यविष्ठः। नः। आ। अजगन्। किम्। ईयते। दूत्यम्। कत्। यत्। ऊचिम। न। निन्दिम। चमसम्। यः। महाऽकुलः। अग्ने। भ्रातः। द्रुणः। इत्। भूतिम्। ऊदिम ॥ १.१६१.१
ऋग्वेद - मण्डल » 1; सूक्त » 161; मन्त्र » 1
अष्टक » 2; अध्याय » 3; वर्ग » 4; मन्त्र » 1
अष्टक » 2; अध्याय » 3; वर्ग » 4; मन्त्र » 1
विषयः - अथ मेधाविकर्म्माण्याह ।
अन्वयः - हे भ्रातरग्ने यो महाकुलो द्रुणश्चमसमाप्नोति तं वयं न निन्दिम नोऽस्मान् किं श्रेष्ठः किमु यविष्ठ आऽजगन् यद्यं वयमूचिम स किं दूत्यमीयते ते प्राप्येत् कद्भूतिमूदिम ॥ १ ॥
पदार्थः -
(किम्) (उ) (श्रेष्ठः) (किम्) (यविष्ठः) अतिशयेन युवा (नः) अस्मान् (आ) (अजगन्) पुनःपुनः प्राप्नोति। अत्र यङि लङि बहुलं छन्दसीति शपो लुक्। (किम्) (ईयते) प्राप्नोति (दूत्यम्) दूतस्य भावं कर्म वा (कत्) कदा (यत्) यम् (ऊचिम) उच्याम (न) (निन्दिम) निन्देम। अत्र वा छन्दसीति लिटि द्विर्वचनाभावः। (चमसम्) मेघम् (यः) (महाकुलः) महत्कुलं यस्य (अग्ने) विद्वन् (भ्रातः) बन्धो (द्रुणः) यो द्रवति सः (इत्) एव (भूतिम्) ऐश्वर्यम् (ऊदिम) वदेम ॥ १ ॥
भावार्थः - जिज्ञासवो विदुष एवं पृच्छेयुरस्मान् कथमुत्तमविद्या प्राप्नुयात् कश्चास्मिन् विषये श्रेयान् बलिष्ठो दूत इव पदार्थोऽस्ति कं प्राप्य वयं सुखिनः स्यामेति ॥ १ ॥
इस भाष्य को एडिट करें