ऋग्वेद - मण्डल 1/ सूक्त 167/ मन्त्र 1
ऋषिः - अगस्त्यो मैत्रावरुणिः
देवता - इन्द्रो मरुच्च
छन्दः - भुरिक्पङ्क्ति
स्वरः - पञ्चमः
स॒हस्रं॑ त इन्द्रो॒तयो॑ नः स॒हस्र॒मिषो॑ हरिवो गू॒र्तत॑माः। स॒हस्रं॒ रायो॑ माद॒यध्यै॑ सह॒स्रिण॒ उप॑ नो यन्तु॒ वाजा॑: ॥
स्वर सहित पद पाठस॒हस्र॑म् । ते॒ । इ॒न्द्र॒ । ऊ॒तयः॑ । नः॒ । स॒हस्र॑म् । इषः॑ । ह॒रि॒ऽवः॒ । गू॒र्तऽत॑माः । स॒हस्र॑म् । रायः॑ । मा॒द॒यध्यै॑ । स॒ह॒स्रिणः॑ । उप॑ । नः॒ । य॒न्तु॒ । वाजाः॑ ॥
स्वर रहित मन्त्र
सहस्रं त इन्द्रोतयो नः सहस्रमिषो हरिवो गूर्ततमाः। सहस्रं रायो मादयध्यै सहस्रिण उप नो यन्तु वाजा: ॥
स्वर रहित पद पाठसहस्रम्। ते। इन्द्र। ऊतयः। नः। सहस्रम्। इषः। हरिऽवः। गूर्तऽतमाः। सहस्रम्। रायः। मादयध्यै। सहस्रिणः। उप। नः। यन्तु। वाजाः ॥ १.१६७.१
ऋग्वेद - मण्डल » 1; सूक्त » 167; मन्त्र » 1
अष्टक » 2; अध्याय » 4; वर्ग » 4; मन्त्र » 1
अष्टक » 2; अध्याय » 4; वर्ग » 4; मन्त्र » 1
विषयः - अथ सज्जनगुणानाह ।
अन्वयः - हे हरिव इन्द्र यास्ते सहस्रमूतयः सहस्रमिषः सहस्रं गूर्त्ततमा रायः सन्ति ता नः सन्तु। सहस्रिणो वाजा मादयध्यै नोऽस्मानुपयन्तु ॥ १ ॥
पदार्थः -
(सहस्रम्) असंख्या (ते) तव (इन्द्र) परमैश्वर्ययुक्त सम्राट् (ऊतयः) रक्षाः (नः) अस्माकम् (सहस्रम्) (इषः) अन्नादीनि (हरिवः) धारणाऽऽकर्षणादियुक्त (गूर्त्ततमाः) अतिशयिता उद्यमाः (सहस्रम्) (रायः) श्रियः (मादयध्यै) मादयितुमानन्दयितुम् (सहस्रिणः) सहस्रमसंख्याता बहवः पदार्थाः सन्ति येषु ते (उप) (नः) अस्मान् (यन्तु) प्राप्नुवन्तु (वाजाः) बोधाः ॥ १ ॥
भावार्थः - मनुष्यैर्यानि भाग्यशालिनां सर्वोत्तमसामग्र्या यथायोग्यक्रियया चाऽसंख्यानि सुखानि भवन्ति तान्यस्माकं सन्त्विति मत्वा सततं प्रयतितव्यम् ॥ १ ॥
इस भाष्य को एडिट करें