Loading...
ऋग्वेद मण्डल - 1 के सूक्त 4 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 1/ सूक्त 4/ मन्त्र 1
    ऋषिः - मधुच्छन्दाः वैश्वामित्रः देवता - इन्द्र: छन्दः - गायत्री स्वरः - षड्जः

    सु॒रू॒प॒कृ॒त्नुमू॒तये॑ सु॒दुघा॑मिव गो॒दुहे॑। जु॒हू॒मसि॒ द्यवि॑द्यवि॥

    स्वर सहित पद पाठ

    सु॒रू॒प॒ऽकृ॒त्नुम् । ऊ॒तये॑ । सु॒दुघा॑म्ऽइव । गो॒ऽदुहे॑ । जु॒हू॒मसि॑ । द्यवि॑ऽद्यवि ॥


    स्वर रहित मन्त्र

    सुरूपकृत्नुमूतये सुदुघामिव गोदुहे। जुहूमसि द्यविद्यवि॥

    स्वर रहित पद पाठ

    सुरूपऽकृत्नुम्। ऊतये। सुदुघाम्ऽइव। गोऽदुहे। जुहूमसि। द्यविऽद्यवि॥

    ऋग्वेद - मण्डल » 1; सूक्त » 4; मन्त्र » 1
    अष्टक » 1; अध्याय » 1; वर्ग » 7; मन्त्र » 1

    अन्वयः - गोदुहे दुग्धादिकमिच्छवे मनुष्याय दोहनसुलभां गामिव वयं द्यविद्यवि प्रतिदिनं सविधानां स्वेषामूतये विद्याप्राप्तये सुरूपकृत्नुमिन्द्रं परमेश्वरं जुहूमसि स्तुमः॥१॥

    पदार्थः -
    (सुरूपकृत्नुम्) य इन्द्रः सूर्य्यः सर्वान्पदार्थान् स्वप्रकाशेन स्वरूपान् करोतीति तम्। कृहनिभ्यां क्त्नुः। (उणा०३.३०) अनेन क्त्नुप्रत्ययः। उपपदसमासः। इन्द्रो॑ दि॒व इन्द्र॑ ईशे पृथि॒व्याः। (ऋ०१०.८९.१०) नेन्द्रा॑दृ॒ते प॑वते॒ धाम॒ किं च॒न॥ (ऋ०९.६९.६, निरु०७.२) (निरु०७.२) अहमिन्द्रः परमेश्वरः सूर्य्यं पृथिवीं च ईशे रचितवानस्मीति तेनोपदिश्यते। तस्मादिन्द्राद्विना किञ्चिदपि धाम न पवते न पवित्रं भवति। (ऊतये) विद्याप्राप्तये। अवधातोः प्रयोगः। ऊतियूति०। (अष्टा०३.३.९७) अस्मिन्सूत्रे निपातितः। (सुदुघामिव) यथा कश्चिन्मनुष्यो बहुदुग्धदात्र्या गोः पयो दुग्ध्वा स्वाभीष्टं प्रपूरयति तथा। दुहः कप् घश्च। (अष्टा०३.२.७०) इति सुपूर्वाद् दुहधातोः कप्प्रत्ययो घादेशश्च। (गोदुहे) गोर्दोग्ध्रे दुग्धादिकमिच्छवे मनुष्याय। सत्सूद्विष०। (अष्टा०३.२.६१) इति सूत्रेण क्विप्प्रत्ययः। (जुहूमसि) स्तुमः। बहुलं छन्दसि। (अष्टा०२.४.७६) अनेन शपः स्थाने श्लुः। अभ्यस्तस्य च। (अष्टा०६.१.३३) अनेन सम्प्रसारणम्। सम्प्रसारणाच्च। (अष्टा०६.१.१०४) अनेन पूर्वरूपम्। हलः। (अष्टा०६.४.२) इति दीर्घः। इदन्तो मसि। (अष्टा०७.१.४६) अनेन मसेरिकारागमः। (द्यविद्यवि) दिने दिने। नित्यवीप्सयोः। (अष्टा०८.१.४) अनेन द्वित्वम्। द्यविद्यवीत्यहर्नामसु पठितम्। (निघं०१.९)॥१॥

    भावार्थः - अत्रोपमालङ्कारः। यथा मनुष्या गोर्दुग्धं प्राप्य स्वप्रयोजनानि साधयन्ति तथैव धार्मिका विद्वांसः परमेश्वरोपासनया श्रेष्ठविद्यादिगुणान् प्राप्य स्वकार्य्याणि प्रपूरयन्तीति॥१॥

    इस भाष्य को एडिट करें
    Top