ऋग्वेद - मण्डल 1/ सूक्त 52/ मन्त्र 1
ऋषिः - सव्य आङ्गिरसः
देवता - इन्द्र:
छन्दः - भुरिक्त्रिष्टुप्
स्वरः - धैवतः
त्यं सु मे॒षं म॑हया स्व॒र्विदं॑ श॒तं यस्य॑ सु॒भ्वः॑ सा॒कमीर॑ते। अत्यं॒ न वाजं॑ हवन॒स्यदं॒ रथ॒मेन्द्रं॑ ववृत्या॒मव॑से सुवृ॒क्तिभिः॑ ॥
स्वर सहित पद पाठत्यम् । सु । मे॒षम् । म॒ह॒य॒ । स्वः॒ऽविद॑म् । श॒तम् । यस्य॑ । सु॒ऽभ्वः॑ । सा॒कम् । ईर॑ते । अत्य॑म् । न । वाज॑म् । ह॒व॒न॒ऽस्यदम् । रथ॑म् । आ । इन्द्र॑म् । व॒वृ॒त्या॒म् । अव॑से । सु॒वृ॒क्तिऽभिः॑ ॥
स्वर रहित मन्त्र
त्यं सु मेषं महया स्वर्विदं शतं यस्य सुभ्वः साकमीरते। अत्यं न वाजं हवनस्यदं रथमेन्द्रं ववृत्यामवसे सुवृक्तिभिः ॥
स्वर रहित पद पाठत्यम्। सु। मेषम्। महय। स्वःऽविदम्। शतम्। यस्य। सुऽभ्वः। साकम्। ईरते। अत्यम्। न। वाजम्। हवनऽस्यदम्। रथम्। आ। इन्द्रम्। ववृत्याम्। अवसे। सुवृक्तिऽभिः ॥
ऋग्वेद - मण्डल » 1; सूक्त » 52; मन्त्र » 1
अष्टक » 1; अध्याय » 4; वर्ग » 12; मन्त्र » 1
अष्टक » 1; अध्याय » 4; वर्ग » 12; मन्त्र » 1
विषयः - पुनः स इन्द्रः कीदृगित्युपदिश्यते ॥
अन्वयः - हे विद्वन् ! यस्येन्द्रस्य सेनाध्यक्षस्य शतं सुभ्वो जनाः सुवृक्तिभिः साकमत्यमश्वं नेवावसे हवनस्यदं वाजमिन्द्रं स्वर्विदं रथमीरते, येनाहं ववृत्यां वर्त्तयेयं त्यन्तं मेषं त्वं सुमहय ॥ १ ॥
पदार्थः -
(त्यम्) तं सभाध्यक्षम् (सु) शोभने (मेषम्) सुखजलाभ्यां सर्वान् सेक्तारम् (महय) पूजयोपकुरु वा। अत्र अन्येषामपि दृश्यत इति दीर्घः। (स्वर्विदम्) स्वरन्तरिक्षं विन्दति येन तम् (शतम्) असंख्याताः (यस्य) इन्द्रस्य (सुभ्वः) ये जनाः सुष्ठु सुखं भावयन्ति ते। अत्र छन्दस्युभयथा (अष्टा०६.४.८७) इति यणादेशः। (साकम्) सह (ईरते) गच्छन्ति प्राप्नुवन्ति (अत्यम्) अश्वम्। अत्य इत्यश्वनामसु पठितम्। (निघं०१.१४) (न) इव (वाजम्) वेगयुक्तम् (हवनस्यदम्) येन हवनं पन्थानं स्यन्दते तम् (रथम्) विमानादिकम् (आ) समन्तात् (इन्द्रम्) परमैश्वर्यवन्तम् (ववृत्याम्) वर्त्तयेयम्, लिङ्प्रयोगोऽयम्। बहुलं छन्दसीत्यादिभिः द्वित्वादिकम् (अवसे) रक्षणाद्याय (सुवृक्तिभिः) सुष्ठु शोभना वृक्तयो दुःखवर्जनानि यासु क्रियासु ताभिः ॥ १ ॥
भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। मनुष्या यथाऽश्वं नियोज्य रथादिकं चालयन्ति, तथैतैर्वह्न्यादिभिर्यानानि वाहयित्वा कार्याणि साधयेयुः ॥ १ ॥
इस भाष्य को एडिट करें