ऋग्वेद - मण्डल 3/ सूक्त 10/ मन्त्र 9
ऋषिः - गाथिनो विश्वामित्रः
देवता - अग्निः
छन्दः - निचृदुष्णिक्
स्वरः - ऋषभः
तं त्वा॒ विप्रा॑ विप॒न्यवो॑ जागृ॒वांसः॒ समि॑न्धते। ह॒व्य॒वाह॒मम॑र्त्यं सहो॒वृध॑म्॥
स्वर सहित पद पाठतम् । त्वा॒ । विप्राः॑ । वि॒प॒न्यवः॑ । जा॒गृ॒ऽवांसः॑ । सम् । इ॒न्ध॒ते॒ । ह॒व्य॒ऽवाह॑म् । अम॑र्त्यम् । स॒हः॒ऽवृध॑म् ॥
स्वर रहित मन्त्र
तं त्वा विप्रा विपन्यवो जागृवांसः समिन्धते। हव्यवाहममर्त्यं सहोवृधम्॥
स्वर रहित पद पाठतम्। त्वा। विप्राः। विपन्यवः। जागृऽवांसः। सम्। इन्धते। हव्यऽवाहम्। अमर्त्यम्। सहःऽवृधम्॥
ऋग्वेद - मण्डल » 3; सूक्त » 10; मन्त्र » 9
अष्टक » 3; अध्याय » 1; वर्ग » 8; मन्त्र » 4
अष्टक » 3; अध्याय » 1; वर्ग » 8; मन्त्र » 4
विषयः - पुनस्तमेव विषयमाह।
अन्वयः - हे आप्त विद्वन् ! ये जागृवांसो विपन्यवो विप्रास्तं हव्यवाहममर्त्यं सहोवृधं त्वा समिन्धते तान् भवान् सर्वतश्शुभैर्गुणैः प्रकाशयतु ॥९॥
पदार्थः -
(तम्) सर्वविद्याप्रकाशकमनूचानम् (त्वा) त्वाम् (विप्राः) मेधाविनः (विपन्यवः) विशेषेण प्रशंसिताः (जागृवांसः) अविद्यानिद्रात उत्थिता विद्यायां जागरूकाः (सम्) (इन्धते) प्रदीपयन्ति (हव्यवाहम्) दातव्यविज्ञानप्रापकम् (अमर्त्यम्) मर्त्यस्य स्वभावराहित्येन देवस्वभावम् (सहोवृधम्) यः सहसा बलेन वर्धते बलस्य वर्धकं वा ॥९॥
भावार्थः - विद्वांस एव विदुषां श्रमं ज्ञातुं शक्नुवन्ति नेतरे, विद्वांसो विदुष एव सत्कुर्वन्तु न मूढानिति ॥९॥ अत्राग्निपरमात्मविद्वद्गुणवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥ इति दशमं सूक्तमष्टमो वर्गश्च समाप्तः ॥
इस भाष्य को एडिट करें