ऋग्वेद - मण्डल 3/ सूक्त 11/ मन्त्र 9
ऋषिः - गाथिनो विश्वामित्रः
देवता - अग्निः
छन्दः - विराड्गायत्री
स्वरः - षड्जः
अग्ने॒ विश्वा॑नि॒ वार्या॒ वाजे॑षु सनिषामहे। त्वे दे॒वास॒ एरि॑रे॥
स्वर सहित पद पाठअग्ने॑ । विश्वा॑नि । वार्या॑ । वाजे॑षु । स॒नि॒षा॒म॒हे॒ । त्वे इति॑ । दे॒वासः । आ । ई॒रि॒रे॒ ॥
स्वर रहित मन्त्र
अग्ने विश्वानि वार्या वाजेषु सनिषामहे। त्वे देवास एरिरे॥
स्वर रहित पद पाठअग्ने। विश्वानि। वार्या। वाजेषु। सनिषामहे। त्वे इति। देवासः। आ। ईरिरे॥
ऋग्वेद - मण्डल » 3; सूक्त » 11; मन्त्र » 9
अष्टक » 3; अध्याय » 1; वर्ग » 10; मन्त्र » 4
अष्टक » 3; अध्याय » 1; वर्ग » 10; मन्त्र » 4
विषयः - पुनस्तमेव विषयमाह।
अन्वयः - हे अग्ने ! यस्मिँस्त्वे देवासोऽस्मानेरिरे ते वयं वाजेषु विश्वानि वार्य्या सनिषामहे ॥९॥
पदार्थः -
(अग्ने) पावकवद्विद्यया प्रकाशमान विद्वन् (विश्वानि) अखिलानि (वार्य्या) वर्त्तुमर्हाणि धनादीनि वस्तूनि (वाजेषु) सङ्ग्रामादिषु व्यवहारेषु (सनिषामहे) संभज्य प्राप्नुयाम (त्वे) त्वयि (देवासः) विद्वांसः (आ) (ईरिरे) प्रेरयन्ति ॥९॥
भावार्थः - हे मनुष्या यत्र धर्म्ये पुरुषार्थे विद्वांसो युष्मान् प्रेरयेयुर्यथा वयं तदाज्ञायां वर्तित्वा विद्यां धनं च प्राप्नुयाम तथा तत्र वर्त्तित्वा यूयमपि तादृशा भवत ॥९॥ अत्राग्निविद्वद्गुणवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिरस्तीति वेद्यम् ॥ इत्येकादशं सूक्तं दशमो वर्गश्च समाप्तः ॥
इस भाष्य को एडिट करें