ऋग्वेद - मण्डल 3/ सूक्त 12/ मन्त्र 4
ऋषिः - गाथिनो विश्वामित्रः
देवता - इन्द्राग्नी
छन्दः - गायत्री
स्वरः - षड्जः
तो॒शा वृ॑त्र॒हणा॑ हुवे स॒जित्वा॒नाप॑राजिता। इ॒न्द्रा॒ग्नी वा॑ज॒सात॑मा॥
स्वर सहित पद पाठतो॒शा । वृ॒त्र॒ऽहना॑ । हु॒वे॒ । स॒ऽजित्य्वा॑ना । अप॑राऽजिता । इ॒न्द्रा॒ग्नी इति॑ । वा॒ज॒ऽसात॑मा ॥
स्वर रहित मन्त्र
तोशा वृत्रहणा हुवे सजित्वानापराजिता। इन्द्राग्नी वाजसातमा॥
स्वर रहित पद पाठतोशा। वृत्रऽहना। हुवे। सऽजित्वाना। अपराऽजिता। इन्द्राग्नी इति। वाजऽसातमा॥
ऋग्वेद - मण्डल » 3; सूक्त » 12; मन्त्र » 4
अष्टक » 3; अध्याय » 1; वर्ग » 11; मन्त्र » 4
अष्टक » 3; अध्याय » 1; वर्ग » 11; मन्त्र » 4
विषयः - अथ राजधर्मविषयमाह।
अन्वयः - हे सभासेनेशावहं वृत्रहणेन्द्राग्नी इव वर्त्तमानौ तोशा सजित्वानाऽपराजिता वाजसातमा युवां हुवे ॥४॥
पदार्थः -
(तोशा) वर्द्धकौ विज्ञातारौ (वृत्रहणा) वृत्रं दुष्टमसुरप्रकृतिं हन्तारौ सभासेनेशौ (हुवे) प्रशंसामि (सजित्वाना) जयशीलैर्वीरैः सह वर्त्तमानौ (अपराजिता) शत्रुभिः पराजेतुमशक्यौ (इन्द्राग्नी) सूर्य्यविद्युतौ (वाजसातमा) वाजस्य विज्ञानस्य धनस्य वातिशयेन विभक्तारौ ॥४॥
भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। ये राजानः शत्रूणां विजेतॄन् शत्रुभिरपराजितान् न्यायाधीशान् पुरुषान् स्वीकुर्वन्ति तेषां नित्यो विजयो भवति ॥४॥
इस भाष्य को एडिट करें