Loading...
ऋग्वेद मण्डल - 3 के सूक्त 19 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 3/ सूक्त 19/ मन्त्र 4
    ऋषिः - गाथी कौशिकः देवता - अग्निः छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    भूरी॑णि॒ हि त्वे द॑धि॒रे अनी॒काऽग्ने॑ दे॒वस्य॒ यज्य॑वो॒ जना॑सः। स आ व॑ह दे॒वता॑तिं यविष्ठ॒ शर्धो॒ यद॒द्य दि॒व्यं यजा॑सि॥

    स्वर सहित पद पाठ

    भूती॑नि । हि । त्वे इति॑ । द॒धि॒रे । अनी॑का । अग्ने॑ । दे॒वस्य॑ । यज्य॑वः । जना॑सः । सः । आ । व॒ह॒ । दे॒वता॑तिम् । य॒वि॒ष्ठ॒ । शर्धः॑ । यत् । अ॒द्य । दि॒व्यम् । यजा॑सि ॥


    स्वर रहित मन्त्र

    भूरीणि हि त्वे दधिरे अनीकाऽग्ने देवस्य यज्यवो जनासः। स आ वह देवतातिं यविष्ठ शर्धो यदद्य दिव्यं यजासि॥

    स्वर रहित पद पाठ

    भूरीणि। हि। त्वे इति। दधिरे। अनीका। अग्ने। देवस्य। यज्यवः। जनासः। सः। आ। वह। देवतातिम्। यविष्ठ। शर्धः। यत्। अद्य। दिव्यम्। यजासि॥

    ऋग्वेद - मण्डल » 3; सूक्त » 19; मन्त्र » 4
    अष्टक » 3; अध्याय » 1; वर्ग » 19; मन्त्र » 4

    अन्वयः - ये यविष्ठाग्ने ! यस्य देवस्य सङ्गेन यज्यवो जनासो हि त्वे भूरीण्यनीका दधिरे यदद्य दिव्यं शर्धो यजासि स त्वं देवतातिमावह ॥४॥

    पदार्थः -
    (भूरीणि) बहूनि (हि) यतः (त्वे) त्वयि (दधिरे) दधीरन् (अनीका) अनीकानि सैन्यानि (अग्ने) विद्युदिव सकलविद्यासु व्यापिन् (देवस्य) दिव्यगुणकर्मस्वभावस्य (यज्यवः) सत्कर्तव्याः (जनासः) विद्यादिगुणैः प्रादुर्भूताः (सः) (आ) (वह) समन्तात्प्राप्नुहि (देवतातिम्) दिव्यस्वभावम् (यविष्ठ) अतिशयेन युवन् (शर्धः) बलम् (यत्) (अद्य) इदानीम् (दिव्यम्) पवित्रम् (यजासि) यजेः ॥४॥

    भावार्थः - ये मनुष्या विद्वत्सङ्गेन बह्वीः सुशिक्षिताः सेना गृह्णीयुस्ते महद्बलं प्राप्य दिव्यान्गुणानाकर्षेयुः ॥४॥

    इस भाष्य को एडिट करें
    Top