Loading...
ऋग्वेद मण्डल - 3 के सूक्त 24 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 3/ सूक्त 24/ मन्त्र 4
    ऋषिः - गोपवन आत्रेयः सप्तवध्रिर्वा देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः

    अग्ने॒ विश्वे॑भिर॒ग्निभि॑र्दे॒वेभि॑र्महया॒ गिरः॑। य॒ज्ञेषु॒ य उ॑ चा॒यवः॑॥

    स्वर सहित पद पाठ

    अग्ने॑ । विश्वे॑भिः । अ॒ग्निऽभिः॑ । दे॒वेभिः॑ । म॒ह॒य॒ । गिरः॑ । य॒ज्ञेषु॑ । ये । ऊँ॒ इति॑ । चा॒यवः॑ ॥


    स्वर रहित मन्त्र

    अग्ने विश्वेभिरग्निभिर्देवेभिर्महया गिरः। यज्ञेषु य उ चायवः॥

    स्वर रहित पद पाठ

    अग्ने। विश्वेभिः। अग्निऽभिः। देवेभिः। महय। गिरः। यज्ञेषु। ये। ऊँ इति। चायवः॥

    ऋग्वेद - मण्डल » 3; सूक्त » 24; मन्त्र » 4
    अष्टक » 3; अध्याय » 1; वर्ग » 24; मन्त्र » 4

    अन्वयः - हे अग्ने ! ये यज्ञेषु चायवस्स्युस्तानेवाग्निभिरिव विश्वेभिर्देवेभिस्सह महय उ एषां गिरः सत्कुरु ॥४॥

    पदार्थः -
    (अग्ने) विद्वन् (विश्वेभिः) समग्रैः (अग्निभिः) अग्निभिरिव वर्त्तमानैः (देवेभिः) दिव्यगुणकर्मस्वभावैर्विद्वद्भिः (महय) पूजय। अत्र संहितायामिति दीर्घः। (गिरः) सुशिक्षिता वाचः (यज्ञेषु) सङ्गन्तव्येषु व्यवहारेषु (ये) (उ) (चायवः) सत्कर्त्तारः ॥४॥

    भावार्थः - ये राजजना अत्र जगत्युत्तमानि कर्म्माणि कुर्युस्ते सर्वैः सत्कर्त्तव्या ये च दुष्टानि तेऽपमाननीयास्स्युः ॥४॥

    इस भाष्य को एडिट करें
    Top