Loading...
ऋग्वेद मण्डल - 3 के सूक्त 3 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 3/ सूक्त 3/ मन्त्र 11
    ऋषिः - गाथिनो विश्वामित्रः देवता - वैश्वानरोऽग्निः छन्दः - भुरिक्पङ्क्ति स्वरः - पञ्चमः

    वै॒श्वा॒न॒रस्य॑ दं॒सना॑भ्यो बृ॒हदरि॑णा॒देकः॑ स्वप॒स्यया॑ क॒विः। उ॒भा पि॒तरा॑ म॒हय॑न्नजायता॒ग्निर्द्यावा॑पृथि॒वी भूरि॑रेतसा॥

    स्वर सहित पद पाठ

    वै॒श्वा॒न॒रस्य॑ । दं॒सना॑भ्यः । बृ॒हत् । अरि॑णात् । एकः॑ । सु॒ऽअ॒प॒स्यया॑ । क॒विः । उ॒भा । पि॒तरा॑ । म॒हय॑न् । अ॒जा॒य॒त॒ । अ॒ग्निः । द्यावा॑पृथि॒वी इति॑ । भूरि॑ऽरेतसा ॥


    स्वर रहित मन्त्र

    वैश्वानरस्य दंसनाभ्यो बृहदरिणादेकः स्वपस्यया कविः। उभा पितरा महयन्नजायताग्निर्द्यावापृथिवी भूरिरेतसा॥

    स्वर रहित पद पाठ

    वैश्वानरस्य। दंसनाभ्यः। बृहत्। अरिणात्। एकः। सुऽअपस्यया। कविः। उभा। पितरा। महयन्। अजायत। अग्निः। द्यावापृथिवी इति। भूरिऽरेतसा॥

    ऋग्वेद - मण्डल » 3; सूक्त » 3; मन्त्र » 11
    अष्टक » 2; अध्याय » 8; वर्ग » 21; मन्त्र » 6

    अन्वयः - य एकः कविः स्वपस्यया वैश्वानरस्य दंसनाभ्यो बृहदरिणाद्यथाग्निर्भूरिरेतस सह वर्त्तमानो द्यावापृथिवी प्रकाशयन्नजायत तथोभा पितरा महयन् वर्त्तेते स सुखी कथन्न जायेत ॥११॥

    पदार्थः -
    (वैश्वानरस्य) सर्वत्र राजमानस्य (दंसनाभ्यः) सुखकरक्रियाभ्यः (बृहत्) महत् (अरिणात्) प्राप्नुयात् (एकः) असहायः (स्वपस्यया) आत्मनः सुष्ठुकर्मण इच्छया (कविः) सर्वशास्त्रवित् (उभा) द्वौ (पितरा) पालकौ (महयन्) सत्कुर्वन् (अजायत) जायते (अग्निः) पावकः (द्यावापृथिवी) सूर्यभूमी (भूरिरेतसा) भूरीणि बहूनि रेतांसि उदकानि यस्मिन्नन्तरिक्षे तेन ॥११॥

    भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। ये जना विद्वत्क्रियाकरा जनकजननीनां सत्कर्त्तारः सन्ति ते भूमिसूर्यवद्दिव्यगुणा भवन्तीति ॥११॥ अत्राग्निविद्वद्गुणवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥ इति तृतीयं सूक्तमेकविंशो वर्गश्च समाप्तः ॥

    इस भाष्य को एडिट करें
    Top