ऋग्वेद - मण्डल 3/ सूक्त 34/ मन्त्र 8
ऋषिः - गोपवन आत्रेयः सप्तवध्रिर्वा
देवता - इन्द्र:
छन्दः - भुरिक्पङ्क्ति
स्वरः - पञ्चमः
स॒त्रा॒साहं॒ वरे॑ण्यं सहो॒दां स॑स॒वांसं॒ स्व॑र॒पश्च॑ दे॒वीः। स॒सान॒ यः पृ॑थि॒वीं द्यामु॒तेमामिन्द्रं॑ मद॒न्त्यनु॒ धीर॑णासः॥
स्वर सहित पद पाठस॒त्रा॒ऽसहम् । वरे॑ण्यम् । स॒हः॒ऽदाम् । स॒स॒वांस॑म् । स्वः॑ । अ॒पः । च॒ । दे॒वीः । स॒सान॑ । यः । पृ॒थि॒वीम् । द्याम् । उ॒त । इ॒माम् । इन्द्र॑म् । म॒द॒न्ति॒ । अनु॑ । धीऽर॑णासः ॥
स्वर रहित मन्त्र
सत्रासाहं वरेण्यं सहोदां ससवांसं स्वरपश्च देवीः। ससान यः पृथिवीं द्यामुतेमामिन्द्रं मदन्त्यनु धीरणासः॥
स्वर रहित पद पाठसत्राऽसहम्। वरेण्यम्। सहःऽदाम्। ससवांसम्। स्वः। अपः। च। देवीः। ससान। यः। पृथिवीम्। द्याम्। उत। इमाम्। इन्द्रम्। मदन्ति। अनु। धीऽरणासः॥
ऋग्वेद - मण्डल » 3; सूक्त » 34; मन्त्र » 8
अष्टक » 3; अध्याय » 2; वर्ग » 16; मन्त्र » 3
अष्टक » 3; अध्याय » 2; वर्ग » 16; मन्त्र » 3
विषयः - पुनस्तमेव विषयमाह।
अन्वयः - यः सत्रासाहं वरेण्यं सहोदां ससवांसं स्वर्देवीरपश्चेमां पृथिवीमुतेमां द्यां ससान तमिन्द्रं धीरणासो मदन्ति स ताननुमदेदानन्देत् ॥८॥
पदार्थः -
(सत्रासाहम्) यः सत्रा सत्यानि सहते स तम् (वरेण्यम्) स्वीकर्तुं योग्यम् (सहोदाम्) बलप्रदम् (ससवांसम्) पापपुण्ययोर्विभक्तारम् (स्वः) सुखम् (अपः) प्राणान् (च) (देवीः) दिव्याः (ससान) विभजेत (यः) (पृथिवीम्) अन्तरिक्षं भूमिं वा (द्याम्) विद्युतम् (उत) (इमाम्) वर्त्तमानाम् (इन्द्रम्) (मदन्ति) आनन्दन्ति (अनु) (धीरणासः) धीः प्रशस्ता प्रज्ञा रणः सङ्ग्रामो येषान्ते ॥८॥
भावार्थः - योऽसत्यत्यागी सत्यग्राही बलवर्धकः प्रजासुखेच्छुर्विद्युत्पृथिव्यादिगुणान् विद्यया विभाजकः स्यात् तमेव परीक्षकं धीमन्तो वीराः प्राप्याऽऽनन्दन्ति तेऽपीदृशादेवानन्दं प्राप्तुमर्हन्ति ॥८॥
इस भाष्य को एडिट करें