Loading...
ऋग्वेद मण्डल - 3 के सूक्त 4 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 3/ सूक्त 4/ मन्त्र 5
    ऋषिः - गाथिनो विश्वामित्रः देवता - आप्रियः छन्दः - त्रिष्टुप् स्वरः - धैवतः

    स॒प्त हो॒त्राणि॒ मन॑सा वृणा॒ना इन्व॑न्तो॒ विश्वं॒ प्रति॑ यन्नृ॒तेन॑। नृ॒पेश॑सो वि॒दथे॑षु॒ प्र जा॒ता अ॒भी॒३॒॑मं य॒ज्ञं वि च॑रन्त पू॒र्वीः॥

    स्वर सहित पद पाठ

    स॒प्त । हो॒त्राणि॑ । मन॑सा । वृ॒णा॒नाः । इन्व॑न्तः । विश्व॑म् । प्रति॑ । य॒न् । ऋ॒तेन॑ । नृ॒ऽपेश॑सः । वि॒दथे॑षु । प्र । जा॒ताः । अ॒भि । इ॒मम् । य॒ज्ञम् । वि । च॒र॒न्त॒ । पू॒र्वीः ॥


    स्वर रहित मन्त्र

    सप्त होत्राणि मनसा वृणाना इन्वन्तो विश्वं प्रति यन्नृतेन। नृपेशसो विदथेषु प्र जाता अभी३मं यज्ञं वि चरन्त पूर्वीः॥

    स्वर रहित पद पाठ

    सप्त। होत्राणि। मनसा। वृणानाः। इन्वन्तः। विश्वम्। प्रति। यन्। ऋतेन। नृऽपेशसः। विदथेषु। प्र। जाताः। अभि। इमम्। यज्ञम्। वि। चरन्त। पूर्वीः॥

    ऋग्वेद - मण्डल » 3; सूक्त » 4; मन्त्र » 5
    अष्टक » 2; अध्याय » 8; वर्ग » 22; मन्त्र » 5

    अन्वयः - ये विदथेषु प्रजाता नृपेशसो मनसा सप्त होत्राणि वृणाना विश्वमिन्वता ऋतेनेमं यज्ञमभियेन विश्वं प्रतियन् पूर्वीराहुतयो विचरन्त स यज्ञः सर्वैरनुष्ठेयः ॥५॥

    पदार्थः -
    (सप्त) सप्तविधानि (होत्राणि) हवनसम्बन्धीनि कर्माणि (मनसा) विज्ञानेन (वृणानाः) स्वीकुर्वाणाः (इन्वन्तः) व्याप्नुवन्तः (विश्वम्) सर्वं जगत् (प्रति) (यन्) प्राप्नुवन्ति (ऋतेन) जलेन। ऋतमित्युदकनाम०। निघं०१। १२। (नृपेशसः) नृणां पेशो रूपमिव रूपं येषान्ते (विदथेषु) यज्ञेषु (प्र) (जाताः) प्रादुर्भूताः (अभि) सर्वतः (इमम्) ) (यज्ञम्) (वि) (चरन्त) विचरन्तु। अत्र व्यत्ययेनात्मनेपदम्। (पूर्वीः) पूर्वं सम्पादिताः ॥५॥

    भावार्थः - यदि मनुष्याः सुगन्ध्यादियुक्तानां द्रव्याणां वह्नौ प्रक्षेपेण वायुवृष्टिजलौषध्यन्नानि संशोधयेयुस्तर्हि सर्वमारोग्यमाप्नुयुः ॥५॥

    इस भाष्य को एडिट करें
    Top