Loading...
ऋग्वेद मण्डल - 3 के सूक्त 4 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 3/ सूक्त 4/ मन्त्र 7
    ऋषिः - गाथिनो विश्वामित्रः देवता - आप्रियः छन्दः - स्वराट्पङ्क्ति स्वरः - पञ्चमः

    दैव्या॒ होता॑रा प्रथ॒मा न्यृ॑ञ्जे स॒प्त पृ॒क्षासः॑ स्व॒धया॑ मदन्ति। ऋ॒तं शंस॑न्त ऋ॒तमित्त आ॑हु॒रनु॑ व्र॒तं व्र॑त॒पा दीध्या॑नाः॥

    स्वर सहित पद पाठ

    दैव्या॑ । होता॑रा । प्र॒थ॒मा । नि । ऋ॒ञ्जे॒ । स॒प्त । पृ॒क्षासः॑ । स्व॒धया॑ । म॒द॒न्ति॒ । ऋ॒तम् । शंस॑न्तः । ऋ॒तम् । इत् । ते । आ॒हुः॒ । अनु॑ । व्र॒तम् । व्र॒त॒ऽपाः । दीध्या॑नाः ॥


    स्वर रहित मन्त्र

    दैव्या होतारा प्रथमा न्यृञ्जे सप्त पृक्षासः स्वधया मदन्ति। ऋतं शंसन्त ऋतमित्त आहुरनु व्रतं व्रतपा दीध्यानाः॥

    स्वर रहित पद पाठ

    दैव्या। होतारा। प्रथमा। नि। ऋञ्जे। सप्त। पृक्षासः। स्वधया। मदन्ति। ऋतम्। शंसन्तः। ऋतम्। इत्। ते। आहुः। अनु। व्रतम्। व्रतऽपाः। दीध्यानाः॥

    ऋग्वेद - मण्डल » 3; सूक्त » 4; मन्त्र » 7
    अष्टक » 2; अध्याय » 8; वर्ग » 23; मन्त्र » 2

    अन्वयः - यौ प्रथमा दैव्या होतारा सप्तविधानि हवींष्याधत्तो य ऋतं पृक्षास ऋतमिच्छंसन्तो दीध्याना व्रतपा अनुव्रतमाहुस्ते स्वधया मदन्ति तानहं न्यृञ्जे ॥७॥

    पदार्थः -
    (दैव्या) दिव्यगुणावेव (होतारा) दातारौ (प्रथमा) विस्तारकौ (नि) (ऋञ्जे) भर्जयामि (सप्त) (पृक्षासः) संपर्काः (स्वधया) जलेनान्नेन वा (मन्दति) हृष्यन्ति (ऋतम्) जलम् (शंसन्तः) स्तुवन्तः (ऋतम्) सत्यम् (इत्) एव (ते) (आहुः) कथयन्तु (अनु) (व्रतम्) शीलम् (व्रतपाः) सुशीलरक्षका (दीध्यानाः) देदीप्यमानाः ॥७॥

    भावार्थः - ये यज्ञाहुतिभिः शुद्धानि पवनजलान्नादीनि सेवन्ते ते सुशीलाः सन्तः प्रशंसका भूत्वाऽऽनन्दन्ति ॥७॥

    इस भाष्य को एडिट करें
    Top