Loading...
ऋग्वेद मण्डल - 3 के सूक्त 47 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 3/ सूक्त 47/ मन्त्र 3
    ऋषिः - गोपवन आत्रेयः सप्तवध्रिर्वा देवता - इन्द्र: छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    उ॒त ऋ॒तुर्भि॑र्ऋतुपाः पाहि॒ सोम॒मिन्द्र॑ दे॒वेभिः॒ सखि॑भिः सु॒तं नः॑। याँ आभ॑जो म॒रुतो॒ ये त्वान्वह॑न्वृ॒त्रमद॑धु॒स्तुभ्य॒मोजः॑॥

    स्वर सहित पद पाठ

    उ॒त । ऋ॒तुऽभिः॑ । ऋ॒तु॒ऽपाः । पा॒हि॒ । सोम॑म् । इन्द्र॑ । दे॒वेभिः॑ । सखि॑ऽभिः । सु॒तम् । नः॒ । यान् । आ । अभ॑जः । म॒रुतः॑ । ये । त्वा । अनु॑ । अह॑न् । वृ॒त्रम् । अद॑धुः । तुभ्य॑म् । ओजः॑ ॥


    स्वर रहित मन्त्र

    उत ऋतुर्भिर्ऋतुपाः पाहि सोममिन्द्र देवेभिः सखिभिः सुतं नः। याँ आभजो मरुतो ये त्वान्वहन्वृत्रमदधुस्तुभ्यमोजः॥

    स्वर रहित पद पाठ

    उत। ऋतुऽभिः। ऋतुऽपाः। पाहि। सोमम्। इन्द्र। देवेभिः। सखिऽभिः। सुतम्। नः। यान्। आ। अभजः। मरुतः। ये। त्वा। अनु। अहन्। वृत्रम्। अदधुः। तुभ्यम्। ओजः॥

    ऋग्वेद - मण्डल » 3; सूक्त » 47; मन्त्र » 3
    अष्टक » 3; अध्याय » 3; वर्ग » 11; मन्त्र » 3

    अन्वयः - हे इन्द्र ! त्वमृतुभिस्सहर्त्तुपाः सूर्य इव देवेभिः सखिभिः सह सुतं सोमं पाहि यान् महतो नोऽस्माँस्त्वमाभजो ये तुभ्यमोजो वृत्रं त्वा त्वां चान्वदधुस्तांस्त्वं पाहि उतापि यथा सूर्यो वृत्रमहँस्तथा शत्रून् हिन्धि ॥३॥

    पदार्थः -
    (उत) अपि (ऋतुभिः) वसन्तादिभिः (ऋतुपाः) य ऋतून् पाति रक्षति स सूर्य्यः (पाहि) रक्ष (सोमम्) सूयन्ते यस्मिँस्तं संसारम् (इन्द्र) दुःखविदारक (देवेभिः) विद्वद्भिः (सखिभिः) सुहृद्भिः (सुतम्) निष्पन्नम् (नः) अस्मान् (यान्) (आ) समन्तात् (अभजः) सेवस्व (मरुतः) मरणधर्ममनुष्यान् (ये) (त्वा) त्वाम् (अनु) (अहन्) हन्ति (वृत्रम्) सर्वसुखकरं धनम् (अदधुः) दध्युः (तुभ्यम्) (ओजः) बलम् ॥३॥

    भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। हे राजादयो मनुष्याः ! यथा सूर्य्यो वसन्तादिभिः सर्वं जगद्रक्षति जलादिकमाकृष्य वर्षित्वा पाति तथैव विद्वद्भिर्मित्रैः सह विचार्य विजयपुरुषार्थाभ्यां सर्वान् रक्षन्तु ॥३॥

    इस भाष्य को एडिट करें
    Top